भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 683-702

683

करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः । कुर्वः । कुर्मः । कुरुते । चकार, चक्रे । कर्तासि, कर्तासे । करिष्यति, करिष्यते । करोतु । कुरुताम् । अकरोत् । अकुरुत ॥
ये च

684

कृञ उलोपो यादौ प्रत्यये परे । कुर्यात्, कुर्वीत । क्रियात्, कृषीष्ट । अकार्षीत्, अकृत । अकरिष्यत्, अकरिष्यत ॥
सम्परिभ्यां करोतौ भूषणे

685

समवाये च

686

सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति । अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट् । संस्कृतं भक्षा इति ज्ञापकात् ॥
उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च

687

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृता ब्राह्मणाः । एधोदकस्योपस्करोति । उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते ॥ वनु याचने ॥ 7 ॥ वनुते । ववने ॥ मनु अवबोधने ॥ 8 ॥ मनुते । मेने । मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीष्ट । अमत, अमनिष्ट । अमनिष्यत ॥
इति तनादयः ॥ 8 ॥
अथ क्र्यादयः
डुक्रीञ् द्रव्यविनिमये ॥ 1 ॥
क्र्यादिभ्यः श्ना

688

शपो ऽपवादः । क्रीणाति । ई हल्यघोः । क्रीणीतः । श्नाभ्यस्तयोरातः । क्रीणन्ति । क्रीणासि । क्रीणीथः । क्रीणीथ । क्रीणामि । क्रीणीवः । क्रीणीमः । क्रीणीते । क्रीणाते । क्रीणते । क्रीणीषे । क्रीणाथे । क्रीणीध्वे । क्रीणे । क्रीणीवहे । क्रीणीमहे । चिक्राय । चिक्रियतुः । चिक्रियुः । चिक्रयिथ, चिक्रेथ । चिक्रिय । चिक्रिये । क्रेता । क्रेष्यति, क्रेष्यते । क्रीणातु, क्रीणीतात् । क्रीणीताम् । अक्रीणात्, अक्रीणीत । क्रीणीयात्, क्रीणीत । क्रीयात्, क्रेषीष्ट । अक्रैषीत्, अक्रेष्यत ॥ प्रीञ् तर्पणे कान्तौ च ॥ 2 ॥ प्रीणाति, प्रीणीते ॥ श्रीञ् पाके ॥ 3 ॥ श्रीणाति, श्रीणीते ॥ मीञ् हिंसायाम् ॥ 4 ॥
हिनुमीना

689

उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात् । प्रमीणाति, प्रमीणीते । मीनातीत्यात्वम् । ममौ । मिम्यतुः । ममिथ, ममाथ । मिम्ये । माता । मास्यति । मीयात्, मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ॥ षिञ् बन्धने ॥ 5 ॥ सिनाति, सिनीते । सिषाय, सिष्ये । सेता ॥ स्कुञ् आप्लवने ॥ 6 ॥
स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च

690

चात् श्ना । स्कुनोति, स्कुनाति । स्कुनुते, स्कुनीते । चुस्काव, चुस्कुवे । स्कोता । अस्कौषीत्, अस्कोष्ट ॥ स्तन्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्थाः परस्मैपदिनः ॥
हलः श्नः शानज्झौ

691

हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान ॥
जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च

692

च्लेरङ् वा स्यात् ॥
स्तन्भेः

693

स्तन्भेः सौत्रस्य सस्य षः स्यात् । व्यष्टभत् । अस्तम्भीत् ॥ युञ् बन्धने ॥ 7 ॥ युनाति, युनीते । योता ॥ क्नूञ् शब्दे ॥ 8 ॥ क्नूनाति, क्नूनीते ॥ द्रूञ् हिंसायाम् ॥ 9 ॥ द्रूणाति, द्रूणीते ॥ दॄ विदारणे ॥ 10 ॥ दृणाति, दृणीते ॥ पूञ् पवने ॥ 11 ॥
प्वादीनां ह्रस्वः

694

पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली व्ली प्लीनां चतुर्विंशतेः शिति ह्रस्वः । पुनाति, पुनीते । पविता ॥ लूञ् छेदने ॥ 12 ॥ लुनाति, लुनीते ॥ स्तॄञ् आच्छादने ॥ 13 ॥ स्तृणाति । शर्पूर्वाः खयः । तस्तार । तस्तरतुः । तस्तरे । स्तरीता । स्तरिता । स्तृणीयात्, स्तृणीत । स्तीर्यात् ॥
लिङ्सिचोरात्मनेपदेषु

695

वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि ॥
न लिङि

696

वॄत इटो लिङि न दीर्घः । स्तरिषीष्ट । उश्चेति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु । अस्तारीत् । अस्तारिष्टाम् । अस्तारिषुः । अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट ॥ कृञ् हिंसायाम् ॥ 14 ॥ कृणाति, कृणीते । चकार, चकरे ॥ वृञ् वरणे ॥ 15 ॥ वृणाति, वृणीते । ववार, ववरे । वरिता, वरीता । उदोष्ठ्येत्युत्त्वम् । वूर्यात् । वरिषीष्ट, वूर्षीष्ट । अवारीत् । अवारिष्टाम् । अवरिष्ट, अवरीष्ट, अवूर्ष्ट ॥ धूञ् कम्पने ॥ 16 ॥ धुनाति, धुनीते । धविता, धोता । अधावीत् । अधविष्ट, अधोष्ट ॥ ग्रह उपादाने ॥ 17 ॥ गृह्णाति, गृह्णीते । जग्राह, जगृहे ॥
ग्रहो ऽलिटि दीर्घः

697

एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । हलः श्नः शानज्झाविति श्नः शानजादेशः । गृहाण । गृह्यात्, ग्रहीषीष्ट । ह्म्यन्तेति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् ॥ कुष् अ निष्कर्षे ॥ 18 ॥ कुष्णाति । कोषिता ॥ अश भोजने ॥ 19 ॥ अश्नाति । आश । अशिता । अशिष्यति । अश्नातु । अशान ॥ मुष स्तेये ॥ 20 ॥ मोषिता । मुषाण ॥ ज्ञा अवबोधने ॥ 21 ॥ जज्ञौ ॥ वृङ् संभक्तौ ॥ 22 ॥ वृणीते । ववृषे ॥ ववृढ्वे । वरिता, वरीता । अवरीष्ट, अवरिष्ट, अवृत ॥
इति क्र्यादयः ॥ 9 ॥
अथ चुरादयः
चुर स्तेये ॥ 1 ॥
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण चुरादिभ्यो णिच्

698

एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः ऽप्रातिपदिकाद्धात्वर्थेऽ; इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्तेति गुणः । सनाद्यन्ता इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥
णिचश्च

699

णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात्, चोरयिषीष्ट । णिश्रीति चङ् । णौ चङीति ह्रस्वः । चङीति द्वित्वम् । हलादिः शेषः । दीर्घो लघोरित्यभ्यासस्य दीर्घः । अचूचुरत्, अचूचुरत ॥ कथ वाक्यप्रबन्धे ॥ 2 ॥ अल्लोपः ॥
अचः परस्मिन्पूर्वविधौ

700

अल्विध्यर्थमिदम् । परनिमित्तो ऽजादेशः स्थानिवत् स्यात्स्थानि भूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति स्थानिवत्वान्नोपधावृद्धिः । कथयति । अग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचकथत् ॥ गण संख्याने ॥ 3 ॥ गणयति ॥
ई च गणः

701

गणयतेरभ्यासस्य ई स्याच्चङ्परे णौ चादत् । अजीगणत्, अजगणत् ॥
इति चुरादयः ॥
अथ ण्यन्तप्रक्रिया
स्वतन्त्रः कर्ता

702

क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात् ॥
तत्प्रयोजको हेतुश्च

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc