भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 61-80

61

अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । गौर्य्यौ । ( न समासे ) । वाप्यश्वः ॥
ऋत्यकः

62

ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः । पदान्ताः किम् ? आर्छत् ॥
इत्यच्सन्धिः
अथ हल् सन्धिः
स्तोः श्चुना श्चुः

63

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । रामश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥
शात्

64

शात्परस्य तवर्गस्य चुत्वं न स्यात् । विश्नः । प्रश्नः ॥
ष्टुना ष्टुः

65

स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥
न पदान्ताट्टोरनाम्

66

पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् ? ईट्टे । टोः किम् ? सर्पिष्टमम् । ( अनाम्नवतिनगरीणामिति वाच्यम् ) । षण्णवतिः । षण्णगर्य्यः ॥
तोः षि

67

न ष्टुत्वम् । सन्षष्ठः ॥
झलां जशो ऽन्ते

68

पदान्ते झलां जशः स्युः । वागीशः ॥
यरो ऽनुनासिके ऽनुनासिको वा

69

यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात् । एतन्मुरारिः, एतद् मुरारिः । ( प्रत्यये भाषायां नित्यम् ) । तन्मात्रम् ।
चिन्मयम् ॥
तोर्लि

70

तवर्गस्य लकारे परे परसवर्णः । तवर्गस्य लकारे परे परसवर्णः । तल्लयः । विद्वांल्लिखति । नस्यानुनासिको लः ।
उदः स्थास्तम्भोः पूर्वस्य

71

उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ॥
तस्मादित्युत्तरस्य

72

पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥
आदेः परस्य

73

परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । इति सस्य थः ॥
झरो झरि सवर्णे

74

हलः परस्य झरो वा लोपः सवर्णे झरि ॥
खरि च

75

खरि झलां चरः । इत्युदो दस्य तः । उत्थानम् । उत्तम्भनम् ॥
झयो हो ऽन्यतरस्याम्

76

झयः परस्य हस्य वा पूर्वसवर्णः । नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः । वाग्घरिः, वाघरिः ॥
शश्छो ऽटि

77

झयः परस्य शस्य छो वाटि । तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः । तच्छिवः, तच्शिवः । ( छत्वममीति वाच्यम् ) तच्छ्लोकेन ॥
मो ऽनुस्वारः

78

मान्तस्य पदस्यानुस्वारो हलि । हरिं वन्दे ॥
नश्चापदान्तस्य झलि

79

नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंस्यते । झलि किम् ? मन्यते ॥
अनुस्वारस्य ययि परसवर्णः

80

स्पष्टम् । शान्तः ॥
वा पदान्तस्य

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc