भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 81-100

81

त्वङ्करोषि, त्वं करोषि ॥
मो राजि समः क्वौ

82

क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥
हे मपरे वा

83

मपरे हकारे परे मस्य मो वा । किम् ह्मलयति, किं ह्मलयति । ( यवलपरे यवला वा )। किंय्ह्यः, किं ह्यः । किंव्ह्वलयति, किं ह्वलयति । किंल् ह्लादयति, किं ह्लादयति ॥
नपरे नः

84

नपरे हकारे मस्य नो वा । किन् ह्नुते, किं ह्नुते ॥
आद्यन्तौ टकितौ

85

टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥
ङ्णोः कुक्टुक् शरि

86

वा स्तः । ( चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् ) । प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः । सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः ॥
डः सि धुट्

87

डात्परस्य सस्य धुड्वा । षट्त्सन्तः, षट् सन्तः ॥
नस्च

88

नान्तात्परस्य सस्य धुड्वा । सन्त्सः, सन्सः ॥
शि तुक्

89

पदान्तस्य नस्य शे परे तुग्वा । सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः ॥
ङमो ह्रस्वादचि ङमुण् नित्यम्

90

ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥
समः सुटि

91

समो रुः सुटि ॥
अत्रानुनासिकः पूर्वस्य तुवा

92

अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा ॥
अनुनासिकात्परो ऽनुस्वारः

93

अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः ॥
खरवसानयोर्विसर्जनीयः

94

खरि अवसाने च पदान्तसाय रेफस्य विसर्गः । (संपुंकानां सो वक्तव्यः) । संस्स्कर्ता, संस्स्कर्ता ॥
पुमः खय्यम्परे

95

अम्परे खयि पुमो रुः । पुंस्कोकिलः, पुंस्कोकिलः ॥
नश्छव्यप्रशान्

96

अम्परे छवि नान्तस्य पदस्यरुः; न तु प्रशान्शब्दस्य ॥
विसर्जनीयस्य सः

97

खरि । चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व । अप्रशान् किम् ? प्रशान्तनोति । पदस्येति किम् ? हन्ति ॥
नॄन् पे

98

नॄनित्यस्य रुर्वा पे ॥
कुप्वोः एक एपौ च

99

कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः । नॄं पाहि, नॄंः पाहि, नॄंः पाहि । नॄन् पाहि ॥
तस्य परमाम्रेडितम्

100

द्विरुक्तस्य परमाम्रेडितम् स्यात् ॥
कानाम्रेडिते

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc