लघुसिद्धान्तकौमुदी · श्लोक 41-60
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायोंं नमः । शिव एहि ॥
अन्तादिवच्च
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत् । शिवेहि ॥
अकः सवर्णे दीर्घः
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । दैत्यारः । श्रीशिः । विष्णूदयः । होतॄकारः ॥
एङः पदान्तादति
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णो ऽव ॥
सर्वत्र विभाषाः गोः
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते । गोअग्रम्, गो ऽग्रम् । एङन्तस्य किम् ? चित्रग्वग्रम् । पदान्ते किम्? गोः ॥
अनेकाल् शित्सर्वस्य
इति प्राप्ते ॥
ङिच्च
ङिदनेकालप्यन्त्यस्ययैव स्यात् ॥
अवङ् स्फोटायनस्य
पदान्ते एङन्तस्य गोरवङ् वाचि । गवाग्रम्, गो ऽग्रम् । पदान्ते किम् ? गवि ॥
इन्द्रे च
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥
दूराद्धूते च
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा ॥
प्लुतप्रगृह्या अचि नित्यम्
एते ऽचि प्रकृत्या स्युः । आगच्छ कृष्ण 3 अत्र गौश्चरति ॥
ईदूदेद् द्विवचनं प्रगृह्यम्
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू ॥
अदसो मात्
अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात्किम् ? अमुके ऽत्र ॥
चादयो ऽसत्वे
अद्रव्यार्थाश्चादयो निपाताः स्युः ॥
प्रादयः
एते ऽपि तथा ॥
निपात एकाजनाङ्
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात् । इ इन्द्रः । उ उमेशः । ऽवाक्यस्मरणयोरङित्; आ एवं नु मन्यसे । आ एवं किल तत् । अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम् ॥
ओत्
ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥
सम्बुद्धौ शाकल्यस्येतावनार्षे
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे । विष्णो इति, विष्ण इति, विष्णविति ॥
मय उञो वो वा
मयः परस्य उञो वो वाचि । किम्वुक्तम्, किमु उक्तम् ॥
इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि । ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः । चक्रि अत्र, चक्रय्त्र । पदान्ता इति किम् ? गौर्यौ -.
अचो रहाभ्यां द्वे
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0