भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 523-542

523

सलोपः । एधेत । एधेयाताम् ॥
झस्य रन्

524

लिङो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥
इटो ऽत्

525

लिङादेशस्य इटो ऽत्स्यात् । एधेय । एधेवहि । एधेमहि ॥
सुट् तिथोः

526

लिङस्तथोः सुट् । यलोपः । आर्धधातुकत्वात्सलोपो न । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥
आत्मनेपदेष्वनतः

527

अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् । ऐधिढ्वम् । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि ॥ कमु कान्तौ ॥ 2 ॥
क्रमेर्णिङ्

528

स्वार्थे । ङित्त्वात्तङ् । कामयते ॥
अयामन्ताल्वाय्येत्न्विष्णुषु

529

आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । कामायाञ्चक्रे । आयादय इति णिङ् वा । चकमे । चकमाते । चकमिरे । चकमिषे । चकमाथे । चकमिध्वे । चकमे । चकमिवहे । चकमिमहे । कामयिता । कामयितासे । कमिता । कामयिष्यते, कमिष्यते । कामयताम् । अकामयत । कामयेत । कामयिषीष्ट ॥
विभाषेटः

530

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः । कामयिषीढ्वम्, कामयिषीध्वम् । कमिषीष्ट । कमिषीध्वम् ॥
णिश्रिद्रुश्रुभ्यः कर्तरि चङ्

531

ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे । अकामि अ त इति स्थिते -- .
णेरनिटि

532

अनिडादावार्धधातुके परे णेर्लोपः स्यात् ।
णौ चङ्युपधाया ह्रस्वः

533

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥
चङि

534

चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तो ऽजादेर्द्वितीयस्य ॥
सन्वल्लघुनि चङ्परे ऽनग्लोपे

535

चङ्परे णौ यदङ्गं तस्य यो ऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपे ऽसति ॥
सन्यतः

536

अभ्यासस्यात इत् स्यात् सनि ॥
दीर्घो लघोः

537

लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये । अचीकमत, णिङ्भावपक्षे -- ( कमेश्च्लेश्चङ् वाच्य ः) । अचकमत । अकामयिष्यत, अकमिष्यत ॥ अय गतौ ॥ 3 ॥ अयते ॥
उपसर्गस्यायतौ

538

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते ॥
दयायासश्च

539

दय् अय् आस् एभ्य आम् स्याल्लिटि । अयाञ्चक्रे । अयिता । अयिष्यते । अयताम् । आयत । अयेत । अयिषीष्ट । विभाषेटः । अयिषीढ्वम्, अयिषीध्वम् । आयिष्ट । आयिढ्वम्, आयिध्वम् । आयिष्यत ॥ द्युत दीप्तौ ॥ 4 ॥ द्योतते ॥
द्युतिस्वाप्योः सम्प्रसारणम्

540

अनयोरभ्यासस्य सम्प्रसारणं स्यात् । दिद्युते ॥
द्युद्भ्यो लुङि

541

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादीत्यङ् । अद्युतत्, अद्योतिष्ट । अद्योतिष्यत ॥ एवं श्विता वर्णे ॥ 5 ॥ ञिमिदा स्नेहने ॥ 6 ॥ ञिष्विदा स्नेहनमोचनयोः ॥ 7 ॥ मोहनयोरित्येके । ञिक्ष्विदा चेत्येके ॥ रुच दीप्तावभिप्रीतौ च ॥ 8 ॥ घुट परिवर्तने ॥ 9 ॥ शुभ दीप्तौ ॥ 10 ॥ क्षुभ संचलने ॥ 11 ॥ णभ तुभ हिंसायाम् ॥ 12-13 ॥ स्रंसु भ्रंसु ध्वंसु अवस्रंसने ॥ 14-15-16 ॥ ध्वंसु गतौ च ॥ स्रम्भु विश्वासे ॥ 17 ॥ वृतु वर्तने ॥ 18 ॥ वर्तते । ववृते । वर्तिता ॥
वृद्भ्यः स्यसनोः

542

वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च ॥
न वृद्भ्यश्चतुर्भ्यः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc