भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 543-562

543

वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे । वर्त्स्यति, वर्तिष्यते । वर्तताम् । अवर्तत । वर्तेत । वर्तिषीष्ट । अवर्तिष्ट । अवर्त्स्यत्, अवर्तिष्यत् ॥ दद दाने ॥ 19 ॥ ददते ॥
न शसददवादिगुणानाम्

544

शसेर्ददेर्वकारादीनां गुणशब्देन विहितो यो ऽकारस्तस्य एत्त्वाभ्यासलोपौ न । दददे । दददाते । दददिरे । ददिता । ददिष्यते । ददताम् । अददत । ददेत । ददिषीष्ट । अददिष्ट । अददिष्यत ॥ त्रपूष् लज्जायाम् ॥ 20 ॥ त्रपते ॥
तॄफलभजत्रपश्च

545

एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च । त्रेपे । त्रपिता, त्रप्ता । त्रपिष्यते, त्रप्स्यते । त्रपताम् । अत्रपत । त्रपेत । त्रपिषीष्ट, त्रप्सीष्ट । अत्रपिष्ट, अत्रप्त । अत्रपिष्यत, अत्रप्स्यत ॥
इत्यात्मनेपदिनः॥
श्रिञ् सेवायाम् ॥ 1 ॥ श्रयति, श्रयते । शिश्राय, शिश्रिये । श्रयितासि, श्रयितासे । श्रयिष्यति, श्रयिष्यते । श्रयतु, श्रयताम् । अश्रयत्, अश्रयत । श्रयेत्, श्रयेत । श्रीयात्, श्रयिषीष्ट । चङ् । अशिश्रियत्, अशिश्रियत । अश्रयिष्यत्, अश्रयिष्यत ॥ भृञ् भरणे ॥ 2 ॥ भरति, भरते । बभार । बभ्रतुः । बभ्रुः । बभर्थ । बभृव । बभृम । बभ्रे । बभृषे । भर्तासि, भर्तासे । भरिष्यति, भरिष्यते । भरतु, भरताम् । अभरत्, अभरत । भरेत्, भरेत ॥
रिङ् शयग्लिङ्क्षु

546

शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात् । रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न । भ्रियात् ॥
उश्च

547

ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् ॥
ह्रस्वादङ्गात्

548

सिचो लोपो झलि । अभृत । अभृषाताम् । अभरिष्यत्, अभरिष्यत ॥ हृञ् हरणे ॥ 3 ॥ हरति, हरते । जहार । जहर्थ । जह्रिव । जह्रिम । जह्रे । जह्रिषे । हर्तासि, हर्तासे । हरिष्यति, हरिष्यते । हरतु, हरताम् । अहरत्, अहरत । हरेत्, हरेत । ह्रियात्, हृषीष्ट । हृषीयास्ताम् । अहार्षीत्, अहृत । अहरिष्यत्, अहरिष्यत ॥ धृञ् धारणे ॥ 4 ॥ धरति, धरते ॥ णीञ् प्रापणे ॥ 5 ॥ नयति, नयते ॥ डुपचष् पाके ॥ 6 ॥ पचति, पचते । पपाच । पेचिथ, पपक्थ । पेचे । पक्तासि, पक्तासे ॥ भज सेवायाम् ॥ 7 ॥ भजति, भजते । बभाज, भेजे । भक्तासि, भक्तासे । भक्ष्यति, भक्ष्यते । अभाक्षीत्, अभक्त । अभक्षाताम् ॥
यज देवपूजा सङ्गतिकरणदानेषु ॥ 8 ॥ यजति, यजते ॥
लिट्यभ्यासस्योभयेषाम्

549

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि । इयाज ॥
वचिस्वपियजादीनां किति

550

वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति । ईजतुः । ईजुः । इयजिथ, इयष्ठ । ईजे । यष्टा ॥
षढोः कः सि

551

यक्ष्यति, यक्ष्यते । इज्यात्, यक्षीष्ट । अयाक्षीत्, अयष्ट ॥ वह् अ प्रापणे ॥ 9 ॥ वहति, वहते । उवाह । ऊहतुः । ऊहुः । उवहिथ ॥
झषस्ताथोर्धो ऽधः

552

झषः परस्योस्तथोर्धः स्यान्न तु दधातेः ॥
ढो ढे लोपः

553

सहिवहोरोदवर्णस्य

554

अनयोरवर्णस्य ओत्स्याड्ढलोपे । उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवाक्षीः । अवोढम् । अवोढ । अवाक्षम् । अवाक्ष्व । अवाक्ष्म । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवक्षाथाम् । अवोढ्वम् । अवक्षि । अवक्ष्वहि । अवक्ष्महि ॥
इति भ्वादयः ॥ 1 ॥
अथादादयः
अद भक्षणे ॥ 1 ॥
अदिप्रभृतिभ्यः शपः

555

लुक् स्यात् । अत्ति । अत्तः । अदन्ति । अत्सि । अत्थः । अत्थ । अद्मि । अद्वः । अद्मः ।
लिट्यन्यतरस्याम्

556

अदो घसॢ वा स्याल्लिटि । जघास । उपधालोपः ॥
शासिवसिघसीनां च

557

इण्कुभ्यां परस्यैषां सस्य षः स्यात् । घस्य चर्त्वम् ॥ जक्षतुः । जक्षुः । जघसिथ । जक्षथुः । जक्ष । जघास, जघस । जक्षिव । जक्षिम । आद । आदतुः । आदुः ॥
इडत्त्यर्तिव्ययतीनाम्

558

अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आदिथ । अत्ता । अत्स्यति । अत्तु । अत्तात् । अत्ताम् । अदन्तु ॥
हुझल्भ्यो हेर्धिः

559

होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धि । अत्तात् । अत्तम् । अत्त । अदानि । अदाव । अदाम ॥
अदः सर्वेषाम्

560

अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यात् । अद्यास्ताम् । अद्यासुः ॥
लुङ्सनोर्घसॢ

561

अदो घसॢ स्याल्लुङि सनि च । ऌदित्वादङ् । अघसत् । आत्स्यत् ॥ हन हिंसागत्योः ॥ 2 ॥ हन्ति ॥
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

562

अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे । यमिरमिनमिगमिहनिमन्यतयो ऽनुदात्तोपदेशाः । तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः । हतः । घ्नन्ति । हंसि । हथः । हथ । हन्मि । हन्वः । हन्मः । जघान । जघ्नतुः । जघ्नुः ॥
अभ्यासाच्च

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc