लघुसिद्धान्तकौमुदी · श्लोक 503-522
अपित्सार्वधातुकं ङिद्वत् । शृणुतः ॥
हुश्नुवोः सार्वधातुके
हुश्नुवोरनेकाचो ऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके । शृण्वन्ति । शृणोषि । शृणुथः । शृणुथ । शृणोमि ॥
लोपश्चास्यान्यतरस्यां म्वोः
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः । शृण्वः, शृणुवः । शृण्मः, शृणुमः । शुश्राव । शुश्रुवतुः । शुश्रुवुः । शुश्रोथ । शुश्रुवथुः । शुश्रुव । शुश्राव, शुश्रव । शुश्रुव । शुश्रुम । श्रोता । श्रोष्यति । शृणोतु, शृणुतात् । शृणुताम् । शृण्वन्तु ॥
उतश्च प्रत्ययादसंयोगपूर्वात्
असंयोगपूर्वात्प्रत्ययोतो हेर्लुक् । शृणु, शृणुतात् । शृणुतम् । शृणुत । गुणावादेशौ । शृणवानि । शृणवाव । शृणवाम । अशृणोत् । अशृणुताम् । अशृण्वन् । अशृणोः । अशृणुतम् । अशृणुत । अशृणवम् । अशृण्व, अशृणुव । अशृण्म, अशृणुम । शृणुयात् । शृणुयाताम् । शृणुयुः । शृणुयाः । शृणुयातम् । शृणुयात । शृणुयाम् । शृणुयाव । शृणुयाम । श्रूयात् । अश्रौषीत् । अश्रोष्यत् ॥ गमॢ गतौ ॥ 20 ॥
इषुगमियमां छः
एषां छः स्यात् शिति । गच्छति । जगाम ॥
गमहनजनखनघसां लोपः क्ङित्यनङि
एषामुपधाया लोपो ऽजादौ क्ङिति न त्वङि । जग्मतुः । जग्मुः । जगमिथ, जगन्थ । जग्मथुः । जग्म । जगाम, जगम । जग्मिव । जग्मिम । गन्ता ॥
गमेरिट् परस्मैपदेषु
गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु । गमिष्यति । गच्छतु । अगच्छत् । गच्छेत् । गम्यात् ॥
पुषादिद्युताद्यॢदितः परस्मैपदेषु
श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु । अगमत् । अगमिष्यत् ॥
इति परस्मैपदिनः ।
एध वृद्धौ ॥ 1 ॥
टित आत्मनपदानां टेरे
टितो लस्यात्मनेपदानां टेरेत्वम् । एधते ॥
आतो ङितः
अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥
थासः से
टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे । एधे । एधावहे । एधामहे ॥
इजादेश्च गुरुमतो ऽनृच्छः
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि ॥
आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्य
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञो ऽप्यात्मनेपदम् ॥
लिटस्तझयोरेशिरेच्
लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः । एधाञ्चक्रे । एधाञ्चक्राते । एधाञ्चक्रिरे । एधाञ्चकृषे । एधाञ्चक्राथे ॥
इणः षीध्वंलुङ्लिटां धो ऽङ्गात्
इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात् ॥ एधाञ्चकृढ्वे । एधाञ्चक्रे । एधाञ्चकृवहे । एधाञ्चकृमहे । एधाम्बभूव । एधामास । एधिता । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥
धि च
धादौ प्रत्यये परे सस्य लोपः । एधिताध्वे ॥
ह एति
तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे । एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥
आमेतः
लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥
सवाभ्यां वामौ
सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥
एत ऐ
लोडुत्तमस्य एत ऐ स्यात् । एधै । एधावहै । एधामहै ॥ आटश्च । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥
लिडः सीयुट्
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0