भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 483-502

483

उपदेशे ऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न ॥
उपदेशे ऽत्वतः

484

उपदेशे ऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥
ऋतो भारद्वाजस्य

485

तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते । तेन अन्यस्य स्यादेव । अयमत्र संग्रहः --- अजन्तो ऽकारवान्वा यस्तास्यनिट्थलि वेडयम् ।
ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् ॥
चिक्षयिथ, चिक्षेथ । चिक्षियथुः । चिक्षिय । चिक्षाय, चिक्षय । चिक्षियिव । चिक्षियिम । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् ॥
अकृत्सार्वधातुकयोर्दीर्घः

486

अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः । क्षीयात् ॥
सिचि वृद्धिः परस्मैपदेषु

487

इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि । अक्षैषीत् । अक्षेष्यत् ॥ तप सन्तापे ॥ 14 ॥ तपति । तताप । तेपतुः । तेपुः । तेपिथ, ततप्थ । तेपिव । तेपिम । तप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीत् । अताप्ताम् । अतप्स्यत् ॥ क्रमु पादविक्षेपे ॥ 15 ॥
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः

488

एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे । पक्षे शप् ॥
क्रमः परस्मैपदेषु

489

क्रमो दीर्घः परस्मैपदे शिति । क्राम्यति, क्रामति । चक्राम । क्रमिता । क्रमिष्यति । क्राम्यतु, क्रामतु । अक्राम्यत्, अक्रामत् । क्राम्येत् । क्रामेत् । क्रम्यात् । अक्रमीत् । अक्रमिष्यत् ॥ पा पाने ॥ 16 ॥
पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः

490

पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे । पिबादेशो ऽदन्तस्तेन न गुणः । पिबति ॥
आत औ णलः

491

आदन्ताद्धातोर्णल औकारादेशः स्यात् । पपौ ॥
आतो लोप इटि च

492

अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः । पपतुः । पपुः । पपिथ, पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् ॥
एर्लिङि

493

घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । पेयात् । गातिस्थेति सिचो लुक् । अपात् । अपाताम् ॥
आतः

494

सिज्लुकि आदन्तादेव झेर्जुस् ॥
उस्यपदान्तात्

495

अपदान्तादकारादुसि पररूपमेकादेशः । अपुः । अपास्यत् ॥ ग्लै हर्षक्षये ॥ 17 ॥ ग्लायति ॥
आदेच उपदेशे ऽशिति

496

उपदेशे एजन्तस्य धातोरात्वं न तु शिति । जग्लौ । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् ॥
वान्यस्य संयोगादेः

497

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि । ग्लेयात्, ग्लायात् ॥
यमरमनमातां सक् च

498

एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अग्लासीत् । अग्लास्यत् ॥ ह्वृ कौटिल्ये ॥ 18 ॥ ह्वरति ॥
ऋतश्च संयोगादेर्गुणः

499

ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि । उपधाया वृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । जह्वरथुः । जह्वर । जह्वार, जह्वर । जह्वरिव । जह्वरिम । ह्वर्ता ॥
ऋद्धनोः स्ये

500

ऋतो हन्तेश्च स्यस्येट् । ह्वरिष्यति । ह्वरतु । अह्वरत् । ह्वरेत् ॥
गुणो ऽर्तिसंयोगाद्योः

501

अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वार्षीत् । अह्वरिष्यत् ॥ श्रु श्रवणे ॥ 19 ॥
श्रुवः शृ च

502

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शृणोति ॥
सार्वधातुकमपित्

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc