लघुसिद्धान्तकौमुदी · श्लोक 463-482
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि । नेदतुः । नेदुः ॥
थलि च सेटि
प्रागुक्तं स्यात् । नेदिथ । नेदथुः । नेद । ननाद, ननद । नेदिव । नेदिम । नदिता । नदिष्यति । नदतु । अनदत् । नदेत् । नद्यात् । अनादीत्, अनदीत् । अनदिष्यत् ॥ टु नदि समृद्धौ ॥ 8 ॥
आदिर्ञिटुडवः
उपदेशे धातोराद्या एते इतः स्युः ॥
इदितो नुम् धातोः
नन्दति । ननन्द । नन्दिता । नन्दिष्यति । नन्दतु । अनन्दत् । नन्देत् । नन्द्यात् । अनन्दीत् । अनन्दिष्यत् । अर्च पूजायाम् ॥ 9 ॥ अर्चति ॥
तस्मान्नुड् द्विहलः
द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात् । आनर्च । आनर्चतुः । अर्चिता । अर्चिष्यति । अर्चतु । आर्चत् । अर्चेत् । अर्च्यात् । आर्चीत् । आर्चिष्यत् ॥ व्रज गतौ ॥ 10 ॥ व्रजति । वव्राज । व्रजिता । व्रजिष्यति । व्रजतु । अव्रजत् । व्रजेत् । व्रज्यात् ॥
वदव्रजहलन्तस्याचः
एषामचो वृद्धिः सिचि परस्मैपदेषु । अव्राजीत् । अव्रजिष्यत् ॥ कटे वर्षावरणयोः ॥ 11 ॥ कटति । चकाट । चकटतुः । कटिता । कटिष्यति । कटतु । अकटत् । कटेत् । कट्यात् ॥
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्
हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि । अकटीत् । अकटिष्यत् ॥ गुपू रक्षणे ॥ 12 ॥
गुपूधूपविच्छिपणिपनिभ्य आयः
एभ्य आयः प्रत्ययः स्यात् स्वार्थे ॥
सनाद्यन्ता धातवः
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः । धातुत्वाल्लडादयः । गोपायति ॥
आयादय आर्धधातुके वा
आर्धधातुकविवक्षायामायादयो वा स्युः । ( कास्यनेकाच आम् वक्तव्यः) । लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम् ॥
अतो लोपः
आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके ॥
आमः
आमः परस्य लुक् ॥
कृञ् चानुप्रयुज्यते लिटि
आमन्ताल्लिट्पराः कृभ्वस्तयो ऽनुप्रयुज्यन्ते । तेषां द्वित्वादि ॥
उरत्
अभ्यासऋवर्णस्यात् प्रत्यये । रपरः । हलादिः शेषः । वृद्धिः । गोपायाञ्चकार । द्वित्वात्परत्वाद्यणि प्राप्ते ----- .
द्विर्वचने ऽचि
द्वित्वनिमित्ते ऽचि अच आदेशो न द्वित्वे कर्तव्ये । गोपायाञ्चक्रतुः ॥
एकाच उपदेशे ऽनुदात्तात्
उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न ।
ऊदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः ।
वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः ॥
कान्तेषु शक्लेकः । चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट् । छान्तेषु प्रच्छेकः । जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज् रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश ॥ दान्तेषु अद्क्षुद्खिद्छिद्तुद् नुद्पद्यभिद्विद्यतिविनद्विन्द्शद्सद्स्विद्यस्कन्धदः षोडश । धान्तेषु क्रुध्क्षुध्बुध्यबन्ध्युध्रुध्राध्व्यध्साध्शुध्सिध्या एकादश । नान्तेषु मन्यहनी द्वौ । पान्तेषु आप्छुप्क्षिप्तप्तिप्तृप्यदृप्यलिपलुप्वप्शप्स्वप् सृपस्त्रयोदश । भान्तेषु यभ्रभ्लभस्त्रयः । मान्तेषु गम्यम्नम्रमश्चत्वारः । शान्तेषु क्रश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश । षान्तेषु कृष् त्विष्तुष्द्विष्पुष्यपिष्विष्शिष्शुष्श्लिष्या एकादश ॥ सान्तेषु घस्वसती द्वौ । हान्तेषु दह्दिह्दुह्नह्मिह्रुह्लिह्वहो ऽष्टौ ।
अनुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम् ।
गोपायाञ्चकर्थ । गोपायाञ्चक्रथुः । गोपायाञ्चक्र । गोपायाञ्चकार । गोपायाञ्चकर । गोपायाञ्चकृव । गोपायाञ्चकृम । गोपायाम्बभूव, गोपायामास । जुगोप । जुगुपतुः । जुगुपुः ॥
स्वरतिसूतिसूयतिधूञूदितो वा
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात् । जुगोपिथ, जुगोप्थ । गोपायिता, गोपिता, गोप्ता । गोपायिष्यति, गोपिष्यति, गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । गोपाय्यात्, गुप्यात् । अगोपायीत् ॥
नेटि
इडादौ सिचि हलन्तस्य वृद्धिर्न । अगोपीत्, अगौप्सीत् ॥
झलो झलि
झलः परस्य सस्य लोपो झलि । अगौप्ताम् । अगौप्सुः । अगौप्सीः । अगौप्तम् । अगौप्त । अगौप्सम् । अगौप्स्व । अगौप्स्म । अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत् ॥ क्षि क्षये ॥ 13 ॥ क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । एकाच इति निषेधे प्राप्ते -- .
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटो ऽपि स्यात् ॥
अचस्तास्वत्थल्यनिटो नित्यम्
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0