भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 443-462

443

भू सू एतयोः सार्वधातुके तिङि परे गुणो न । अभूत् । अभूताम् । अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ।
न माङ्योगे

444

अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् । मा स्म भूत् ॥
लिङ्निमित्ते ऌङ् क्रियातिपत्तौ

445

हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यताम् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम् ॥ अत सातत्यगमने ॥ 2 ॥ अतति ॥
अत आदेः

446

अभ्यासस्यादेरतो दीर्घः स्यात् । आत । आततुः । आतुः । आतिथ । आतथुः । आत । आत । आतिव । आतिम । अतिता । अतिष्यति । अततु ॥
आडजादीनाम्

447

अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु । आतत् । अतेत् । अत्यात् । अत्यास्ताम् । लुङि सिचि इडागमे कृते --- .
अस्तिसिचो ऽपृक्ते

448

विद्यमानात् सिचो ऽस्तेश्च परस्यापृक्तस्य हल ईडागमः ॥
इट ईटि

449

इटः परस्य सस्य लोपः स्यादीटि परे । ( सिज्लोप एकादेशे सिद्धो वाच्यः) । आतीत् । आतिष्टाम् ॥
सिजभ्यस्तविदिभ्यश्च

450

सिचो ऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् । आतिषुः । आतीः । आतिष्टम् । आतिष्ट । आतिषम् । आतिष्व । आतिष्म । आतिष्यत् ॥ षिध गत्याम् ॥ 3 ॥
ह्रस्वं लघु

451

संयोगे गरु

452

संयोगे परे ह्रस्वं गुरु स्यात् ॥
दीर्घं च

453

गुरु स्यात् ॥
पुगन्तलघूपधस्य च

454

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः । धात्वादेरिति सः । सेधति । षत्वम् । सिषेध ॥
असंयोगाल्लिट् कित्

455

असंयोगात्परो ऽपिल्लिट् कित् स्यात् । सिषिधतुः । सिषिधुः । सिषेधिथ । सिषिधथुः । सिषिध । सिषेध । सिषिधिव । सिषिधिम । सेधिता । सेधिष्यति । सेधतु । असेधत् । सेधेत् । सिध्यात् । असेधीत् । असेधिष्यत् । एवम् -- चिती संज्ञाने ॥ 4 ॥ शुच शोके ॥ 5 ॥ गद व्यक्तायां वाचि ॥ 6 ॥ गदति ॥
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यति चिनोतिदेग्धिषु च

456

उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु । प्रणिगदति ॥
कुहोश्चुः

457

अभ्यासकवर्गहकारयोश्चवर्गादेशः ॥
अत अपधायाः

458

उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । जगाद । जगदतुः । जगदुः । जगदिथ । जगदथुः । जगद ॥
णलुत्तमो वा

459

उत्तमो णल् वा णित्स्यात् । जगाद, जगद । जगदिव । जगदिम । गदिता । गदिष्यति । गदतु । अगदत् । गदेत् । गद्यात् ॥
अतो हलादेर्लघोः

460

हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि । अगादीत्, अगदीत् । अगदिष्यत् ॥ णद अव्यक्ते शब्दे ॥ 7 ॥
णो नः

461

धात्वादेर्णस्य नः । णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः ॥
उपसर्गादसमासे ऽपि णोपदेशस्य

462

उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः । प्रणदति । प्रणिनदति । नदति । ननाद ॥
अत एकहल्मध्ये ऽनादेशादेर्लिटि

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc