भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 423-442

423

उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्य ः)। दुःस्थितिः । दुर्भवानि। ( अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम् )। अन्तर्भवाणि ॥
नित्यं ङितः

424

सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः । अलो ऽन्त्यस्येति सलोपः । भवाव । भवाम ।
अनद्यतने लङ्

425

अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात् ॥
लुङ्लङॢङ्क्ष्वडुदात्तः

426

एष्वङ्गस्याट् ॥
इतश्च

427

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्

428

एष्वर्थेषु धातोर्लिङ् ॥
यासुट् परस्मैपदेषूदात्तो ङिच्च

429

लिङः परस्मैपदानां यासुडागमो ङिच्च ॥
लिङः सलोपो ऽनन्त्यस्य

430

सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः । इति प्राप्ते -- .
अतो येयः

431

अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय् । गुणः ॥
लोपो व्योर्वलि

432

भवेत् । भवेताम् ।
झेर्जुस्

433

लिङो झेर्जुस् स्यात् । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥
लिङाशिषि

434

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥
किदाशिषि

435

आशिषि लिङो यासुट् कित् । स्कोः संयोगाद्योरिति सलोपः ॥
क्ङिति च

436

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ।
लुङ्

437

भूतार्थे धातोर्लुङ् स्यात् ॥
माङि लुङ्

438

सर्वलकारापवादः ॥
स्मोत्तरे लङ् च

439

स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥
च्लि लुङि

440

शबाद्यपवादः ॥
च्लेः सिच्

441

इचावितौ ॥
गातिस्थापाभूभ्यः सिचः परस्मैपदेषु

442

एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्यते ॥
भूसुवोस्तिङि

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc