लघुसिद्धान्तकौमुदी · श्लोक 403-422
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः ॥
आर्धधातुकस्येड्वलादेः
वलादेरार्धधातुरस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ।
अनद्यतने लुट्
भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात् ॥
स्यतासी ऌलुटोः
धातोः स्य तासि एतौ प्रत्ययौ स्तो ऌलुटोः परतः । शबाद्यपवादः । ऌ इति ऌङॢटोर्ग्रहणम् ।
आर्धधातुकं शेषः
तिङ्शिद्भ्यो ऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥
लुटः प्रथमस्य डारौरसः
डा रौ रस् एते क्रमात्स्युः । डित्वसामर्थ्यादभस्यापि टेर्लोपः । भविता ॥
तासस्त्योर्लोपः
तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे ।
रि च
रादौ प्रत्यये तथा । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः।
ऌट् शेषे च
भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा । स् य इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः।
लोट् च
विध्याद्यर्थेषु धातोर्लोट् ॥
आशिषि लिङ्लोटौ
एरुः
लोट इकारस्य उः । भवतु ॥
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्
आशिषि तुह्योस्तातङ् वा । परत्वात्सर्वादेशः । भवतात् ॥
लोटो लङ्वत्
लोटस्तामादयस्सलोपश्च ॥
तस्थस्थमिपां तांतंतामः
ङितश्चतुर्णां तामादयः क्रमात्स्युः । भवताम् । भवन्तु ॥
सेर्ह्यपिच्च
लोटः सेर्हिः सो ऽपिच्च ॥
अतो हेः
अतः परस्य हेर्लुक् । भव । भवतात् । भवतम् । भवत ।
मेर्निः
लोटो मेर्निः स्यात् ॥
आडुत्तमस्य पिच्च
लोडुत्तमस्याट् स्यात् पिच्च । हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात् ॥
ते प्राग्धातोः
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥
आनि लोट्
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0