भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 21-40

21

संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् ॥
अलो ऽन्त्यस्य

22

षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात् । इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः) । सुद्ध्युपास्यः । मद्धरिः । धात्रशः । लाकृतिः ॥
एचो ऽयवायावः

23

एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥
यथासंख्यमनुदेशः समानाम्

24

समसंबन्धी विधिर्यथासंख्यं स्यात् । हरये । विष्णवे । नायकः । पावकः ॥
वान्तो यि प्रत्यये

25

यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गव्यम् । नाव्यम् । ( अध्वपरमाणे चि ) । गव्यूतिः ॥
अदेङ् गुणः

26

अत् एङ् च गुणसंज्ञः स्यात् ॥
तपरस्तत्कालस्य

27

तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात् ॥
आद्गुणः

28

अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् । उपेन्द्रः । गङ्गोदकम् ॥
उपदेशे ऽजनुनासिक इत्

29

उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा ॥
उरण् रपरः

30

ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते । कृष्णर्द्धिः । तवल्कारः ॥
लोपः शाकल्यस्य

31

अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे ॥
पूर्वत्रासिद्धम्

32

सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् । हर इह, हरयिह । विष्ण इह, विष्णविह ॥
वृद्धिरादैच्

33

आदैच्च वृद्धिसंज्ञः स्यात् ॥
वृद्धिरेचि

34

आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥
एत्येधत्यूठ्सु

35

अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्प्रेदिधत् । ( अक्षादूहन्यामुपिसंख्यानम् ) । अक्षौहणी सेना । ( प्रादूहोढोढ्येषैष्येषु ) । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्यः । ( ऋते च तृतीयासमासे ) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । ( प्रवत्सतरकम्बलवसनार्णदशानामृणे ) । प्रार्णम्, वत्सतर्राणम्, इत्यादि ॥
उपसर्गाः क्रियायोगे

36

प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः । प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः ॥
भूवादयो धातवः

37

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥
उपसर्गादृति धातौ

38

अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्च्छति ॥
एङि पररूपम्

39

आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ॥
अचो ऽन्त्यादि टि

40

अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात् । ( शकन्ध्वादिषु पररूपं वाच्यम् ) । तच्च टेः । शकन्धुः । कर्कन्धुः मनीषा । आकृतिगणो ऽयम् । मार्त्तण्डः ॥
ओमाङोश्च

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc