भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 383-402

383

आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः

384

तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥
तान्येकवचनद्विवचनबहुवचनान्येकशः

385

लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः ॥
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः

386

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः ॥
अस्मद्युत्तमः

387

तथाभूते ऽस्मद्युत्तमः ॥
शेषे प्रथमः

388

मध्यमोत्तमयोरविषये प्रथमः स्यात् । भू ति इति जाते ॥
तिङ् शित्सार्वधातुकम्

389

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥
कर्तरि शप्

390

कर्त्रर्थे सार्वधातुके परे धातोः शप् ॥
सार्वधातुकार्धधातुकयोः

391

अनयोः परयोरिगन्ताङ्गस्य गुणः । अवादेशः । भवति । भवतः ॥
झो ऽन्तः

392

प्रत्ययावयवस्य झस्यान्तादेशः । अतो गुणे । भवन्ति । भवसि । भवथः । भवथ ॥
अतो दीर्घो यञि

393

अतो ऽङ्गस्य दीर्घो यञादौ सार्वधातुके । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः ॥
परोक्षे लिट्

394

भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात् । लस्य तिबादयः ।
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः

395

लिटस्तिबादीनां नवानां णलादयः स्युः । भू अ इति स्थिते -- .
भुवो वुग्लुङ्लिटोः

396

भुवो वुगागमः स्यात् लुङ्लिटोरचि ॥
लिटि धातोरनभ्यासस्य

397

लिटि परे ऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते -- .
पूर्वो ऽभ्यासः

398

अत्र ये द्वे विहिते तयोः पूर्वो ऽभ्याससंज्ञः स्यात् ॥
हलादिः शेषः

399

अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥
ह्रस्वः

400

अभ्यासत्याचो ह्रस्वः स्यात् ॥
भवतेरः

401

भवतेरभ्यासोकारस्य अः स्याल्लिटि ॥
अभ्यासे चर्च

402

अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चर इति विवेकः । बभूव । बभुवतुः । बभूवुः ॥
लिट् च

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc