भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 362-382

362

नहो हस्य धः स्याज्झलि पदान्ते च ॥
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ

363

क्विबन्तेषु पूर्वपदस्य दीर्घः । उपानत् , उपानद् । उपानहौ । उपानत्सु ॥ क्विन्नन्तत्वात् कुत्वेन घः । उष्णिक् , उष्णिग् । उष्णिहौ । उष्णिग्भ्याम् ॥ द्यौः । दिवौ । दिवः । द्युभ्याम् ॥ गीः । गिरौ । गिरः ॥ एवं पूः ॥ चतस्रः । चतसृणाम् ॥ का । के । काः । सर्वावत् ॥
यः सौ

364

इदमो दस्य यः इयम् । त्यदाद्यत्वम् । पररूपत्वम् । टाप् । दश्चेति मः । इमे । इमाः । इमाम् । अनया । हलि लोपः । आभ्याम् । आभिः । अस्यै । अस्याः । अनयोः । आसाम् । अस्याम् । आसु ॥ त्यदाद्यत्वम् । टाप् । स्या । त्ये । त्याः ॥ एवं तद्, एतद् ॥ वाक् , वाग् । वाचौ । वाग्भ्याम् । वाक्षु ॥ अप् शब्दो नित्यं बहुवचनान्तः । अप्तृन्निति दीर्घः । आपः । अपः ॥
अपो भि

365

अपस्तकारो भादौ प्रत्यये । अद्भिः । अद्भ्यः । अद्भ्यः । अपाम् । अप्सु ॥ दिक् , दिश् । दिशौ । दिशः । दिग्भ्याम् ॥ त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् , दृग् । दृशौ । दृग्भ्याम् ॥ त्विट् , त्विड् । त्विषौ । त्विड्भ्याम् ॥ ससजुषो रुरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् ॥ आशीः । आशिषौ । आशीर्भ्याम् ॥ असौ । उत्वमत्वे । अमू । अमूः । अमुया । अमूभ्याम् 3 । अमूभिः । अमुष्यै । अमूभ्यः 2 । अमुष्याः । अमुयोः 2 । अमूषाम् । अमुष्याम् । अमूषु ॥
इति हलन्तस्त्रीलिङ्गाः ।
अथ हलन्तनपुंसकलिङ्गाः
स्वमोर्लुक् । दत्वम् । स्वनडुत् , स्वनडुद् । स्वनडुही । चतुरनडुहोरित्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ वाः । वारी । वारि । वार्भ्याम् ॥ चत्वारि ॥ किम् । के । कानि ॥ इदम् । इमे । इमानि ॥ ( अन्वादेशे नपुंसके वा एनद्वक्तव्य ः) । एनत् । एने । एनानि । एनेन । एनयोः ॥ अहः । विभाषा ङिश्योः । अह्नी, अहनी । अहानि ॥
अहन्

366

अहन्नित्यस्य रुः पदान्ते । अहोभ्याम् ॥ दण्डि । दण्डिनी । दण्डीनि । दण्डिना । दण्डिभ्याम् ॥ सुपथि । टेर्लोपः । सुपथी । सुपन्थानि ॥ ऊर्क , ऊर्ग । ऊर्जी । ऊन्र्जि । नरजानां संयोगः । तत् । ते । तानि ॥ यत् । ये । यानि ॥ एतत् । एते । एतानि ॥ गवाक् , गवाग् । गोची । गवाञ्चि । पुनस्तद्वत् । गोचा । गवाग्भ्याम् ॥ शकृत् । शकृती । शकृन्ति ॥ ददत् ॥
वा नपुंसकस्य

367

अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने । ददन्ति, ददति ॥ तुदत् ॥
आच्छीनद्ययोर्नुम्

368

अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः । तुदन्ती, तुदती । तुदन्ति ॥
शप्श्यनोर्नित्यम्

369

शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् शीनद्योः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति ॥ धनुः । धनुषी । सान्तेति दीर्घः । नुम्विसर्जनीयेति षः । धनुषि । धनुषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः ॥ पयः । पयसी । पयांसि । पयसा । पयाभ्याम् ॥ सुपुम् । सुपुंसी । सुपुमांसि ॥ अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥ ,
इति हलन्तनपुंसकलिङ्गाः ।
इति षड्लिङ्गप्रकरणम् ।
अथाव्ययानि
स्वरादिनिपातमव्ययम्

370

स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । अवस् । समया । निकषा । स्वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । वत् । ब्राह्मणवत् । क्षत्रियवत् ॥ सना । सनत् । सनात् । उपधा । तिरस् । अन्तरा । अन्तरेण । ज्योक् । कम् । षम् । सहसा । विना । नाना । स्वस्ति । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्या । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम्, प्रवाहिका । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतान् । मा । माङ् । आकृतिगणो ऽयम् ॥
च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । यत्र । नह । हन्त । माकिः । माकिम् । नकिः । नकिम् । माङ् । नञ् । यावत् । तावत् । त्वे । द्वै । त्वै । रै । श्रौषट् । वौषट् । स्वाहा । स्वधा । वषट् । तुम् । तथाहि । खलु । किल । अथो । अथ । सुष्ठु । स्म । आदह । ( उपसर्गविभक्तिस्वरप्रतिरूपकाश्च )। अवदत्तम् । अहंयुः । अस्तिक्षीरा । अ । आ । इ । ई । उ । ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथाकथाच । पाट् । प्याट् । अङ्ग । है । हे । भोः । अये । द्य । विषु । एकपदे । युत् । आतः । चादिरप्याकृतिगणः ॥
तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञौ । एतदन्तमप्यव्ययम् ॥
कृन्मेजन्तः

371

कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥
क्त्वातोसुन्कसुनः

372

एतदन्तमव्ययम् । कृत्वा । उदेतोः । विसृपः ॥
अव्ययीभावश्च

373

अधिहरि ॥
अव्ययादाप्सुपः

375

अव्ययाद्विहितस्यापः सुपश्च लुक् । तत्र शालायाम् ॥
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥
वगाहः, अवगाहः । पिधानम्, अपिधानम् ॥
इत्यव्ययानि ॥
अथ तिङन्ते भ्वादयः
लट्, लिट्, लुट्, ऌट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, ऌङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥
लः कर्मणि च भावे चाकर्मकेभ्यः

376

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥
वर्तमाने लट्

377

वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात् । अटावितौ । उच्चारण सामर्थ्याल्लस्य नेत्वम् । भू सत्तायाम् ॥ 1 ॥ कर्तृ विवक्षायां भू ल् इति स्थिते --- .
तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथाम्ध्वमिड्वहिमहिङ्

378

एते ऽष्टादश लादेशाः स्युः ॥
लः परस्मैपदम्

379

लादेशाः परस्मैपद संज्ञाः स्युः ॥
तङानावात्मनेपदम्

380

तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्व संज्ञापवादः ॥
अनुदात्तङित आत्मनेपदम्

381

अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात् ॥
स्वरितञितः कर्त्रभिप्राये क्रियाफले

382

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥
शेषात्कर्तरि परस्मैपदम्

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc