लघुसिद्धान्तकौमुदी · श्लोक 322-341
आभ्यां शसो नः स्यात् । अमो ऽपवादः । आदेः परस्य । संयोगान्तलोपः । युष्मान् । अस्मान् ॥
यो ऽचि
अनयोर्यकारादेशः स्यादनादेशे ऽजादौ परतः । त्वया । मया ॥
युष्मदस्मदोरनादेशे
अनयोरात्स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
तुभ्यमह्यौ ङयि
अनयोर्मपर्यन्तस्य । टिलोपः । तुभ्यम् । मह्यम् ॥
भ्यसो ऽभ्यम्
आभ्यां परस्य । युष्मभ्यम् । अस्मभ्यम् ॥
एकवचनस्य च
आभ्यां ङसेरत् । त्वत् । मत् ॥
पञ्चम्या अत्
आभ्यां पञ्चम्यां भ्यसो ऽत्स्यात् । युष्मत् । अस्मत् ॥
तवममौ ङसि
अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥
युष्मदस्मद्भ्यां ङसो ऽश्
तव । मम । युवयोः । आवयोः ॥
साम आकम्
आभ्यां परस्य साम आकं स्यात् । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः ॥
बहुवचनस्य वस्नसौ
उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः ॥
तेमयावेकवचनस्य
उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥
त्वामौ द्वितीयायाः
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः ॥
श्रीशस्तवावतु मापीह दत्तात्ते मे ऽपि शर्म सः । स्वामी ते मे ऽपि स हरिः पातु वामपि नौ विभुः ॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सो ऽव्याद्वो नः शिवं वो नो दद्यात् सेव्यो ऽत्र वः स नः ॥
( एकवाक्ये युष्मदस्मदादेशा वक्तव्याः ) । एकतिङ् वाक्यम् । ओदनं पच तव भविष्यति । ( एते वान्नावादयो ऽनन्वादेशे वा वक्तव्या ः) । अन्वादेशे तु नित्यं स्युः । धाता ते भक्तो ऽस्ति, धाता तव भक्तो ऽस्ति वा । तस्मै ते नम इत्येव ॥ सुपात् , सुपाद् ॥ सुपदौ ॥
पादः पत्
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः ॥ सुपदः । सुपदा । सुपाद्भ्याम् ॥ अग्निमत् , अग्निमद् । अग्निमथौ । अग्निमथः ॥
अनिदितां हल उपधायाः क्ङिति
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति । नुम् । संयोगान्तस्य लोपः । नस्य कुत्वेन ङः । प्राङ् । प्राञ्चौ । प्राञ्चः ॥
अचः
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः ॥
चौ
लुप्ताकारनकारे ऽञ्चतौ परे पूर्वस्याणो दीर्गः । प्राचः । प्राचा । प्राग्भ्याम् ॥ प्रत्यङ् । प्रत्यञ्चौ । प्रतीचः । प्रत्यग्भ्याम् ॥ उदङ् । उदञ्चौ ॥
उद ईत्
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत् । उदीचः । उदीचा । उदग्भ्याम् । ,
समः समि
वप्रत्ययान्ते ऽञ्चतौ । सम्यङ् । सम्यञ्चौ । समीचः । सम्यग्भ्याम् ॥ ,
सहस्य सध्रिः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0