लघुसिद्धान्तकौमुदी · श्लोक 342-361
तथा । सध्र्यङ् ॥ ,
तिरसस्तिर्यलोपे
अलुप्ताकारे ऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः । तिर्यङ् । तिर्यञ्चौ । तिरश्चः । तिर्यग्भ्याम् ॥ ,
नाञ्चेः पूजायाम्
पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न । प्राङ् । प्राञ्चौ । नलोपाभावादलोपो न । प्राञ्चः । प्राङ्भ्याम् । प्राङ्क्षु ॥ एवं पूजार्थे प्रत्यङ्ङादयः ॥ क्रुङ् । क्रुञ्चौ । क्रुङ्भ्याम् ॥ पयोमुक्, पयोमुग् । पयोमुचौ । पयोमुग्भ्याम् ॥ उगित्त्वान्नुमि - ,
सान्तमहतः संयोगस्य
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने । महान् । महान्तौ । महान्तः । हे महन् । महद्भ्याम् ॥ ,
अत्वसन्तस्य चाधातोः
अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे । उगित्तवान्नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् शसादौ महद्वत् ॥ भातेर्डवतुः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । भवान् । भवान्तौ । भवन्तः । शत्रन्तस्य भवन् ॥ ,
उभे अभ्यस्तम्
षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥ ,
नाभ्यस्ताच्छतुः
अभ्यस्तात्परस्य शतुर्नुम् न । ददत् , ददद् । ददतौ । ददतः ॥ ,
जक्षित्यादयः षट्
षड्धातवो ऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः । जक्षत् , जक्षद् । जक्षतौ । जक्षतः ॥ एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् ॥ गुप्, गुब् । गुपौ । गुपः । गुब्भ्याम् ॥ ,
त्यदादिषु दृशो ऽनालोचने कञ्च
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात् । चात् क्विन् ॥ ,
आ सर्वनाम्नः
सर्वनाम्न आकारो ऽन्तादेशः स्याद्दृग्दृशवतुषु । तादृक् , तादृग् । तादृशौ । तादृशः । तादृग्भ्याम् ॥ व्रश्चेति षः । जश्त्वचर्त्वे । विट् , विड् । विशौ । विशः । विड्भ्याम् ॥ ,
नशेर्वा
नशेः कवर्गो ऽन्तादेशो वा पदान्ते । नक् , नग्; नट्, नड् । नशौ । नशः । नग्भ्याम्, नड्भ्याम् ॥ ,
स्पृशो ऽनुदके क्विन्
अनुदके सुप्युपपदे स्पृशेः क्विन् । घृतस्पृक् , घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः ॥ दधृक् , दधृग् । दधृषौ । दधृग्भ्याम् ॥ रत्नमुषौ । रत्नमुड्भ्याम् ॥ षट् , षड् । षड्भिः । षङ्भ्यः । षण्णाम् । षट्सु ॥ रुत्वं प्रति षत्वस्यासिद्धत्वससजुषो रुरिति रुत्वर्म् ॥ ,
वोरुपधाया दीर्घ इकः
रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते । पिपठीः । पिपठिषौ । पिपठीर्भ्याम् ॥ ,
नुम्विसर्जनीयशर्व्यवाये ऽपि
एतैः प्रत्येकं व्यवधाने ऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः । ष्टुत्वेन पूर्वस्य षः । पिपठीष्षु, पिपठीःषु ॥ चिकीः । चिकीर्षौ । चिकीर्भ्याम् । चिकीर्षु ॥ विद्वान् । विद्वांसौ । हे विद्वन् ॥ ,
वसोः सम्प्रसारणम्
वस्वन्तस्य भस्य सम्प्रसारणं स्यात् । विदुषः । वसुस्रंस्विति दः । विद्वद्भ्याम् ॥
पुंसो ऽसुङ्
सर्वनामस्थाने विवक्षिते पुंसो ऽसुङ् स्यात् । पुमान् । हे पुमन् । पुमांसौ । पुंसः । पुम्भ्याम् । पुंसु ॥ ऋदुशनेत्यनङ् । उशना । उशनसौ । (अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्य ः) । हे उशन, हेउशनन्, हेउशनः । हे उशनसौ । उशनोभ्याम् । उशनस्सु ॥ अनेहा । अनेहसौ । हे अनेहः ॥ वेधाः । वेधसौ । हे वेधः । वेधोभ्याम् ॥
अदस औ सुलोपश्च
अदस औकारो ऽन्तादेशः स्यात्सौ परे सुलोपश्च । तदोरिति सः । असौ । त्यदाद्यत्वम् । वृद्धिः ॥
अदसो ऽसेर्दादु दो मः
अदसो ऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च । आन्तरतम्याद्ध्स्वस्य उः, दीर्घस्य ऊः । अमू । जसः शी । गुणः ॥
एत ईद्बहुवचने
अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥
न मु ने
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः । अमुना । अमूभ्याम् 3 । अमीभिः । अमुष्मै । अमीभ्यः 2 । अमुष्मात् । अमुष्य । अमुयोः 2 । अमीषाम् । अमुष्मिन् । अमीषु ॥
इति हलन्त पुंल्लिङ्गाः ॥
अथ हलन्तस्त्रीलिङ्गाः
नहो धः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0