भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 302-321

302

हलादौ वा स्यात् ॥
अष्टाभ्य औश्

303

कृताकारादष्टनो जश्शसोरौश् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । अष्टौ । अष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे अष्ट, पञ्चवत् ॥
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च

304

एभ्यः क्विन्, अञ्चेः सुप्युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते । कनावितौ ॥
कृदतिङ्

305

अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥
वेरपृक्तस्य

306

अपृक्तस्य वस्य लोपः ॥
क्विन्प्रत्ययस्य कुः

307

क्विन्प्रत्ययो यस्मात्तस्य कवर्गो ऽन्तादेशः पदान्ते । अस्यासिद्धत्वाच्चोः कुरिति कुत्वम् । ऋत्विक् , ऋत्विग् । ऋत्विजौ ।
ऋत्विग्भ्याम् ॥
युजेरसमासे

308

युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तलोपः । कुत्वेन नस्य ङः । युङ् । अनुस्वारपरसवर्णौ । युञ्जौ । युञ्जः । युग्भ्याम् ॥
चोः कुः

309

चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । सुयुक् , सुयुग् । सुयुजौ । सुयुग्भ्याम् ॥ खन् । खञ्जौ । खन्भ्याम् ॥
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

310

झलि पदान्ते च । जश्त्वचर्त्वे । राट् , राड् । राजौ । राजः । राड्भ्याम् ॥ एवं विभ्राट्, देवेट्, विश्वसृट् ॥ ( परौ व्रजेः षः पदान्ते ) । परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि । परिव्राट् । परिव्राजौ ॥
विश्वस्य वसुराटोः

311

विश्वशब्दस्य दीर्घो ऽन्तादेशः स्याद्सौ राट्शब्दे च परे । विश्वराट् , विश्वराड् । विश्वराजौ । विश्वराड्भ्याम् ॥
स्कोः संयोगाद्योरन्ते च

312

पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः । भृट् । सस्य श्चुत्वेन सः । झलां जश् झशि इति शस्य जः । भृज्जौ । भृड्भ्याम् ॥ त्यदाद्यत्वं पररूपत्वं च ॥
तदोः सः सावनन्त्ययोः

313

त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ । स्यः । त्यौ । त्ये ॥ सः । तौ । ते ॥ यः । यौ । ये ॥ एषः । एतौ । एते ॥
ङेप्रथमयोरम्

314

युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः ॥
त्वाहौ सौ

315

अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः ॥
शेषे लोपः

316

एतयोष्टिलोपः । त्वम् । अहम् ॥
युवावौ द्विवचने

317

द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥
प्रथमायाश्च द्विवचने भाषायाम्

318

औङ्येतयोरात्वं लोके । युवाम् । आवाम् ॥
यूयवयौ जसि

319

अनयोर्मपर्यन्तस्य । यूयम् । वयम् ॥
त्वमावेकवचने

320

एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥
द्वितीयायाञ्च

321

अनयोरात्स्यात् । त्वाम् । माम् ॥
शसो न

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc