लघुसिद्धान्तकौमुदी · श्लोक 282-301
अककारयोरिदमदसोर्भिस ऐस् न । एभिः । अस्मै । एभ्यः । अस्मात् । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु ॥
द्वितीयाटौस्स्वेनः
इदमेतदोरन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा - अनेन व्याकरणमधीत मेनं छन्दो ऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति ॥ एनम् । एनौ । एनान् । एनेन । एनयोः । एनयोः ॥ राजा ॥
न ङिसम्बुद्ध्योः
नस्य लोपो न ङौ सम्बुद्धौ च । हे राजन् । ( ङावुत्तरपदे प्रतिषेधो वक्तव्य ः) । ब्रह्मनिष्ठः । राजानौ । राजानः । राज्ञः ॥
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपो ऽसिद्धो नान्यत्र - राजाश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञि, राजनि । राजसु ॥ यज्वा । यज्वानौ । यज्वानः ॥
न संयोगाद्वमन्तात्
वमन्तसंयोगादनो ऽकारस्य लोपो न । यज्वनः । यज्वा । यज्वभ्याम् ॥ ब्रह्मणः । ब्रह्मणा ॥
इन्हन्पूषार्यम्णां शौ
एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते - .
सौ च
इन्नादीनामुपधाया दीर्घो ऽसंबुद्धौ सौ । वृत्रहा । हे वृत्रहन् ॥
एकाजुत्तरपदे णः
एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः । वृत्रहणौ ॥
हो हन्तेर्ञ्णिन्नेषु
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम् । वृत्रघ्नः इत्यादि । एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन् ॥
मघवा बहुलम्
मघवन्शब्दस्य वा तृ इत्यन्तादेशः । ऋ इत् ॥
उगिदचां सर्वनामस्थाने ऽधातोः
अधातोरुगितो नलोपिनो ऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने परे । मघवान् । मघवन्तौ । मघवन्तः । हे मघवन् । मघवद्भ्याम् । तृत्वाभावे मघवा । सुटि राजवत् ॥
श्वयुवमघोनामतद्धिते
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम् । मघोनः । मघवभ्याम् । एवं श्वन्, युवन् ॥
न संप्रसारणे संप्रसारणम्
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्याम् इत्यादि ॥ अर्वा । हे अर्वन् ॥
अर्वणस्त्रसावनञः
नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ । अर्वन्तौ । अर्वन्तः । अर्वद्भ्यामित्यादि ॥
पथिमथ्यृभुक्षामात्
एषामाकारो ऽन्तादेशः स्यात् सौ परे ॥
इतो ऽत्सर्वनामस्थाने
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥
थो न्थः
पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने । पन्थाः । पन्थानौ । पन्थानः ॥
भस्य टेर्लोपः
भस्य पथ्यादेष्टेर्लोपः । पथः । पथा । पथिभ्याम् ॥ एवं मथिन्, ऋभुक्षिन् ॥
ष्णान्ता षट्
षान्ता नान्ता च संख्या षट्संज्ञा स्यात् । पञ्चन् शब्दो नित्यं बहुवचनान्तः । पञ्च । पञ्च । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः ।
नुट् ॥
नोपधायाः
नान्तस्योपधाया दीर्घो नामि । पञ्चानाम् । पञ्चसु ॥
अष्टन आ विभक्तौ
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0