भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 262-281

262

अस्य नुम् स्यात् सौ परे । अनड्वान् ॥
अम् संबुद्धौ

263

हे अनड्वन् । हे अनड्वाहौ । हे अनड्वाहः । अनडुहः । अनडुहा ॥
वसुस्रंसुध्वंस्वनडुहां दः

264

सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि ॥ सान्तेति किम् ? विद्वान् । पदान्ते किम् ? स्रस्तम् ।
ध्वस्तम् ॥
सहेः साडः सः

265

साडरूपस्य सहेः सस्य मूर्धन्यादेशः । तुराषाट् , तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि ॥
दिव औत्

266

दिविति प्रातिपदिकस्यौत्स्यात्सौ । सुद्यौः । सुदिवौ ॥
दिव उत्

267

दिवो ऽन्तादेश उकारः स्यात् पदान्ते । सुद्युभ्यामित्यादि ॥ चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः ॥
षट्चतुर्भ्यश्च

268

एभ्य आमो नुडागमः ॥
रषाभ्यां नो णः समानपदे

269

अचो रहाभ्यां द्वे

270

अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । चतुर्ण्णाम्, चतुर्णाम् ॥
रोः सुपि

271

रोरेव विसर्गः सुपि । षत्वम् । षस्य द्वित्वे प्राप्ते ॥
शरो ऽचि

272

अचि परे शरो न द्वे स्तः । चतुर्षु ॥
मो नो धातोः

273

धातोर्मस्य नः पदान्ते । प्रशान् ॥
किमः कः

274

किमः कः स्याद्विभक्तौ । कः । कौ । के इत्यादि । शेषं सर्ववत् ॥
इदमो मः

275

सौ । त्यदाद्यत्वापवादः ॥
इदो ऽय् पुंसि

276

इदम इदो ऽय् सौ पुंसि । अयम् । त्यदाद्यत्वे ॥
अतो गुणे

277

अपदान्तादतो गुणे पररूपमेकादेशः ॥
दश्च

278

इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥
अनाप्यकः

279

अककारस्येदम इदो ऽनापि विभक्तौ । आबिति प्रत्याहारः । अनेन ॥
हलि लोपः

280

अककारस्येदम इदो लोप आपि हलादौ । नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे ॥
आद्यन्तवदेकस्मिन्

281

एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात् । सुपि चेति दीर्घः । आभ्याम् ॥
नेदमदसोरकोः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc