लघुसिद्धान्तकौमुदी · श्लोक 242-261
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं पुंवत् ॥ एवं धन वन फलादयः ॥
अद्ड्डतरादिभ्यः पञ्चभ्यः
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात् ॥
टेः
डिति भस्य टेर्लोपः । कतरत् , कतरद् । कतरे । कतराणि । हे कतरत् । शेषं पुंवत् ॥ एवं कतमत् । इतरत् । अन्यत् । अन्यतरत् । अन्यतमस्य त्वन्यतममित्येव । ( एकतरात्प्रतिषेधो वक्तव्यः )। एकतरम् ॥
ह्रस्वो नपुंसके प्रातिपदिकस्य
अजन्तस्येत्येव । श्रीपं ज्ञानवत् ॥
स्वमोर्नपुंसकात्
लुक् स्यात् । वारि ॥
इको ऽचि विभक्तौ
इगन्तस्य क्लीबस्य नुमचि विभक्तौ । वारिणी । वारीणि । न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे, हे वारि । घेर्ङितीति गुणे प्राप्ते ( वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन ) । वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । वारीणाम् । वारिणि । हलादौ हरिवत् ॥
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः
एषामनङ् स्याट्टादावचि ॥
अल्लोपो ऽनः
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः । दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः ॥
विभाषा ङिश्योः
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः । दध्नि, दधनि । शेषं वारिवत् ॥ एवमस्थिसक्थ्यक्षि ॥ सुधि । सुधिनी । सुधीनि । हे सुधे, हे सुधि ॥
तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि । सुधिया, सुधिनेत्यादि ॥ मधु । मधुनी । मधूनि । हे मधो, हे मधु ॥ सुलु । सुलुनी । सुलूनि । सुलुनेत्यादि ॥ धातृ । धातृणी । धातॄणि । हे धातः, हे धातृ । धातॄणाम् ॥ एवं ज्ञात्रादयः ॥
एच इग्घ्रस्वादेशे
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि ॥ प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतमनन्यवत् । प्रराभ्याम् । प्ररीणाम् ॥ सुनु । सुनुनी । सुनूनि । सुनुनेत्यादि ॥
इत्यजन्तनपुंसकलिङ्गाः ।
अथ हलन्त पुंल्लिङ्गाः
हो ढः
हस्य ढः स्याज्झलि पदान्ते च । लिट् , लिड् । लिहौ । लिहः । लिड्भ्याम् । लिट्त्सु, लिट्सु ॥
दादेर्धातोर्घः
झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः ॥
एकाचो बशो भष् झषन्तस्य स्ध्वोः
धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च । धुक् , धुग् । दुहौ । दुहः । धुग्भ्याम् । धुक्षु ॥
वा द्रुहमुहष्णुहष्णिहाम्
एषां हस्य वा घो झलि पदान्ते च । ध्रुक् , ध्रुग्, ध्रुट्, ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम्, ध्रुड्भ्याम् । ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु ॥ एवं मुक्, मुग् इत्यादि ॥
धात्वादेः षः सः
स्नुक् , स्नुग्, स्नुट्, स्नुड् । एवं स्निक्, स्निग्, स्निट्, स्निड् ॥ विश्ववाट् , विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ॥
इग्यणः संप्रसारणम्
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥
वाह ऊठ्
भस्य वाहः संप्रसारणमूठ् ॥
संप्रसारणाच्च
संप्रसारणादचि पूर्वरूपमेकादेशः । एत्येधत्यूठ्स्विति वृद्धिः । विश्वौहः, इत्यादि ॥
चतुरनडुहोरामुदात्तः
अनयोराम् स्यात्सर्वनामस्थाने परे ॥
सावनडुहः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0