भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 222-241

222

आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः । सर्वस्यै । सर्वस्याः । सर्वासाम् । सर्वस्याम् । शेषं रमावत् ॥ एवं विश्वादय आबन्ताः ॥
विभाषा दिक्समासे बहुव्रीहौ

223

सर्वनामता वा । उत्तरपूर्वस्यै, उत्तरपूर्वायै । तीयस्येति वा सर्वनामसंज्ञा । द्वितीयस्यै, द्वितीयायै ॥ एवं तृतीया ॥ अम्बार्थेति ह्रस्वः । हे अम्ब । हे अक्क । हे अल्ल ॥ जरा । जरसौ इत्यादि । पक्षे रमावत् ॥ गोपाः, विश्वपावत् ॥ मतीः । मत्या ॥
ङिति ह्रस्वश्च

224

इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति । मत्यै, मतये । मत्याः 2 । मतेः 2 ॥
इदुद्भ्याम्

225

इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम् । मत्याम्, मतौ । शेषं हरिवत् ॥ एवं बुद्ध्यादयः ॥
त्रिचतुरोः स्त्रियां तिसृचतसृ

226

स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ ॥
अचि र ऋतः

227

तिसृ चतसृ एतयोरृकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिसृभ्यः । तिसृभ्यः । आमि नुट् ॥
न तिसृचतसृ

228

एतयोर्नामि दीर्घो न । तिसृणाम् । तिसृषु ॥ द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः ॥ गौरी । गौर्य्यौ । गौर्य्यः । हे गौरि । गौर्य्यै इत्यादि । एवं नद्यादयः ॥ लक्ष्मीः । शेषं गौरीवत् ॥ एवं तरीतन्त्र्यादयः ॥ स्त्री । हे स्त्रि ॥
स्त्रियाः

229

अस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥
वाम्शसोः

230

अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम्, स्त्रीम् । स्त्रियः, स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । परत्वान्नुट् । स्त्रीणाम् । स्त्रीषु ॥ श्रीः । श्रियौ । श्रियाः ॥
नेयङुवङ्स्थानावस्त्री

231

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री । हे श्रीः । श्रियै, श्रिये । श्रियाः, श्रियः ॥
वामि

232

इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री । श्रीणाम्, श्रियाम् । श्रियि, श्रियाम् ॥ धेनुर्मतिवत् ॥
स्त्रियां च

233

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥
ऋन्नेभ्यो ङीप्

234

ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् । क्रोष्ट्री गौरीवत् ॥ भ्रूः श्रीवत् ॥ स्वयम्भूः पुंवत् ॥
न षट्स्वस्रादिभ्यः

235

ङीप्टापौ न स्तः ॥
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा ।
याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥
स्वसा । स्वसारौ ॥ माता पितृवत् । शसि मातॄः ॥ द्यौर्गोवत् ॥ राः पुंवत् ॥ नौर्ग्लौवत् ॥
इत्यजन्तस्त्रीलिङ्गाः
अथाजन्तनपुंसकलिङ्गाः
अतो ऽम्

236

अतो ऽङ्गात् क्लीबात्स्वमोरम् । अमि पूर्वः । ज्ञानम् । एङ्ह्रस्वादिति हल्लोपः । हे ज्ञान॥
नपुंसकाच्च

237

क्लीबादौङः शी स्यात् । भसंज्ञायाम् ॥
यस्येति च

238

कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः । इत्यल्लोपे प्राप्ते ( औङः श्यां प्रतिषेधो वाच्य ः) । ज्ञाने ॥
जश्शसोः शिः

239

क्लीबादनयोः शिः स्यात् ॥
शि सर्वनामस्थानम्

240

शि इत्येतदुक्तसंज्ञं स्यात् ॥
नपुंसकस्य झलचः

241

झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने ॥
मिदचो ऽन्त्यात्परः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc