भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 202-221

202

धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यणजादौ प्रत्यये । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यौ । प्रध्यः । प्रध्यि । शेषं पपीवत् । एवं ग्रामणीः । ङौ तु ग्रामण्याम् ॥ अनेकाचः किम् ? नीः । नियौ । नियः । अमि शसि च परत्वादियङ्, नियम् । ङेराम्; नियाम् ॥ असंयोगपूर्वस्य किम् ? सुश्रियौ । यवक्रियौ ॥
गतिश्च

203

प्रादयः क्रियायोगे गतिसंज्ञाः स्युः । ( गतिकारकेतरपूर्वपदस्य यण् नेष्यते ) । शुद्धधियौ ॥
न भूसुधियोः

204

एतयोरचि सुपि यण्न । सुधियौ । सुधिय इत्यादि ॥ सुखमिच्छतीति सुखीः । सुतीः । सुख्यौ । सुत्यौ । सुख्युः । सुत्युः । शेषं प्रधीवत् । शम्भुर्हरिवत् । एवं भान्वादयः ॥
तृज्वत्क्रोष्टुः

205

असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ॥
ऋतो ङिसर्वनामस्थानयोः

206

ऋतो ऽङ्गस्य गुणो ङौ सर्वनामस्थाने च । इति प्राप्ते -- .
ऋदुशनस्पुरुदंसो ऽनेहसां च

207

ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ ॥
अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्

208

अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टून् ॥
विभाषा तृतीयादिष्वचि

209

अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥
ऋत उत्

210

ऋतो ङसिङसोरति उदेकादेशः । रपरः ॥
रात्सस्य

211

रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रस्य विसर्गः । क्रोष्टुः 2 । क्रोष्ट्रोः 2 । (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन ) । क्रोष्टूनाम् । क्रोष्टरि । पक्षे हलादौ च शम्भुवत् ॥ हूहूः । हूह्वौ । हूह्वः । हूहूम् इत्यादि ॥ अतिचमू शब्दे तु नदीकार्य्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचमूनाम् ॥ खलपूः ॥
ओः सुपि

212

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यण् स्यादचि सुपि । खलप्वौ । खलप्वः । एवं सुल्वादयः ॥ स्वभूः । स्वभुवौ । स्वभुवः ॥ वर्षाभूः ॥
वर्षाभ्वश्च

213

अस्य यण् स्यादचि सुपि । वर्षाभ्वावित्यादि ॥ दृन्भूः । ( दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्य ः) । दृन्भ्वौ । एवं करभूः ॥ धाता । हे धातः । धातारौ । धातारः । ( ऋवर्णान्नस्य णत्वं वाच्यम् ) । धातॄणाम् । एवं नप्त्रादयः ॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । तेनेह न । पिता । पितरौ । पितरः । पितरम् । शेषं धातृवत् । एवं जामात्रादयः ॥ ना । नरौ ॥
नृ च

214

अस्य नामि वा धीर्घः । नृणाम् । नॄणाम् ॥
गोतो णित्

215

ओकाराद्विहितं सर्वनामस्थानं णिद्वत् । गौः । गावौ । गावः ॥
औतो ऽम्शसोः

216

ओतो ऽम्शसोरचि आकार एकादेशः । गाम् । गावौ । गाः । गवा । गवे । गोः । इत्यादि ॥
रायो हलि

217

अस्याकारादेशो हलि विभक्तौ । राः । रायौ । रायः । राम्यामित्यादि ॥ ग्लौः । ग्लावौ । ग्लावः । ग्लौभ्यामित्यादि ॥
इत्यजन्तपुंल्लिङ्गाः ।
अथाजन्तस्त्रीलिङ्गाः
रमा ।
औङ आपः

218

आबन्तादङ्गात्परस्ययौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥
सम्बुद्धौ च

219

आप एकारः स्यात्सम्बुद्धौ । एङ्ह्रस्वादिति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः ॥
आङि चापः

220

आङि ओसि चाप एकारः । रमया । रमाभ्याम् । रमाभिः ॥
याडापः

221

आपो ङितो याट् । वृद्धिः । रमायै । रमाभ्याम् । रमाभ्यः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमासु । एवं दुर्गाम्बिकादयः ॥
सर्वनाम्नः स्याड्ढ्रस्वश्च

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc