भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 1-20

1

लघुसिद्धान्तकौमुदी
अथ संज्ञाप्रकरणम्
हलन्त्यम्

2

उपदेशे ऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् । सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र ॥
अदर्शनं लोपः

3

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ।
तस्य लोपः

4

तस्येतो लोपः स्यात् । णादयो ऽणाद्यर्थाः ।
आदिरन्त्येन सहेता

5

अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा । एवमच् हल् अलित्यादयः ॥
ऊकालो ऽज्झ्रस्वदीर्घप्लुतः

6

उश्च ऊश्च ऊ3श्च वः; वां कालो यस्य सो ऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादि भेदेन त्रिधा ।
उच्चैरुदात्तः

7

नीचैरनुदात्तः

8

समाहारः स्वरतिः

9

स नवविधो ऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ॥
मुखनासिकावचनो ऽनुनासिकः

10

मुखसहतिनासिकयोच्चार्यमाणो वर्णो ऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । ऌवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥
तुल्यास्यप्रयत्नं सवर्णम्

11

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम् ) । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । ऌतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठ तालु । ओदौतोः कण्ठोष्टम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् । ईषद्विवृतमूष्मणाम् । विवृतं स्वराणाम् । ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणोमहाप्राण उदात्तो ऽनुदात्तः स्वरतिश्चेति । खरो विवाराः श्वासा अघोषाश्च । हशः संवारा नादा घोषाश्च । वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः । वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः । कादयो मावसानाः स्पर्शाः । यणो ऽन्तःस्थाः । शल ऊष्माणः । अचः स्वराः । -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः । -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः । अं अः इत्यचः परावनुस्वारविसर्गौ ॥
अणुदित्सवर्णस्य चाप्रत्ययः

12

प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानो ऽणुदिच्च सवर्णस्य संज्ञा स्यात् । अत्रैवाण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् - अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवं ऌकारो ऽपि । एचो द्वादशानाम् । अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा ।
परः संनिकर्षः संहता

13

विर्णानामतिशयितः संनिधिः संहतासिंज्ञः स्यात् ॥
हलो ऽनन्तराः संयोगः

14

अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः ॥
सुप्तिङन्तं पदम्

15

सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥
इति संज्ञाप्रकरणम्
अथाच्सन्धिः
इको यणचि

16

इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते ॥
तस्मिन्निति निर्दिष्टे पूर्वस्य

17

सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम् ॥
स्थाने ऽन्तरतमः

18

प्रसङ्गे सति सदृशतम आदेशः स्यात् । सुध्य् उपास्य इति जाते ॥
अनचि च

19

अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते ॥
झलां जश् झशि

20

स्पष्टम् । इति पूर्वधकारस्य दकारः ॥
संयोगान्तस्य लोपः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc