भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 182-201

182

सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् ॥
अचो ञ्णिति

183

अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे । सखायौ । सखायः । हे सखे । सखायम् । सखायौ । सखीन् । सख्या । सख्ये ॥
ख्यत्यात्परस्य

184

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः । सख्युः ॥
औत्

185

इतः परस्य ङेरौत् । सख्यौ । शेषं हरिवत् ॥
पतिः समास एव

186

घिसंज्ञः । पत्युः 2 । पत्यौ । शेषं हरिवत् । समासे तु भूपतये । कति शब्दो नित्यं बहुवचनान्तः ॥
बहुगणवतुडति संख्या

187

डति च

188

डत्यन्ता संख्या षट्संज्ञा स्यात् ॥
षड्भ्यो लुक्

189

जश्शसोः ॥
प्रत्ययस्य लुक्श्लुलुपः

190

लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥
प्रत्ययलोपे प्रत्ययलक्षणम्

191

प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥
न लुमताङ्गस्य

192

लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति 2 । कतिभिः । कतिभ्यः 2 । कतीनाम् । कतिषु । युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः ॥ त्रि शब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः 2 ॥
त्रेस्त्रयः

193

त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । त्रिषु । गौणत्वे ऽपि प्रियत्रयाणाम् ॥
त्यदादीनामः

194

एषामकारो विभक्तौ । ( द्विपर्य्यन्तानामेवेष्टिः ) । द्वौ 2 । द्वाभ्याम् 3 । द्वयोः 2 ॥ पाति लोकमिति पपीः सूर्यः ॥
दीर्घाज्जसि च

195

पप्यौ 2 । पप्यः । हे पपीः । पपीम् । पपीन् । पप्या । पपीभ्याम् 3 । पपीभिः । पप्ये । पपीभ्यः 2 । पप्यः 2 । पप्योः । दीर्घत्वान्न नुट्, पप्याम् । ङौ तु सवर्णदीर्घः, पपी । पप्योः । पपीषु । एवं वातप्रम्यादयः ॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी ॥
यू स्त्र्याख्यौ नदी

196

ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । ( प्रथमलिङ्गग्रहणं च ) । पूर्वं स्त्र्याख्यस्योपसर्जनत्वे ऽपि नदीत्वं वक्तव्यमित्यर्थः ॥
अम्बार्थनद्योर्ह्रस्वः

197

सम्बुद्धौ । हे बहुश्रेयसि ॥
आण्नद्याः

198

नद्यन्तात्परेषां ङितामाडागमः ॥
आटश्च

199

आटो ऽचि परे वृद्धिरेकादेशः । बहुश्रेयस्यै । बहुश्रेयस्याः । बहुश्रेयसीनाम् ॥
ङेराम्नद्याम्नीभ्यः

200

नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम् । बहुश्रेयस्याम् । शेषं पपीवत् ॥ अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् ॥ प्रधीः ॥
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ

201

श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तो ऽजादौ प्रत्यये परे । इति प्राप्ते ॥
एरनेकाचो ऽसंयोगपूर्वस्य

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc