भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 162-181

162

अजादौ विभक्तौ । (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च । (प.) निर्दिश्यमानस्यादेशा भवन्ति । (प.) एकदेशविकृतमनन्यवत् , इति जरशब्दस्य जरस् । निर्जरसौ । निर्जरस इत्यादि । पक्षे हलादौ च रामवत् ॥ विश्वपाः ॥
दीर्घाज्जसि च

163

दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात् । विश्वपौ । विश्वपाः । हे विश्वपाः । विश्वपाम् । विश्वपौ ॥
सुडनपुंसकस्य

164

स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥
स्वादिष्वसर्वनामस्थाने

165

कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात् ॥
यचि भम्

166

यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात् ॥
आकडारादेका संज्ञा

167

इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या परानवकाशा च ॥
आतो धातोः

168

आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः । अलो ऽन्त्यस्य । विश्वपः । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः । धातोः किम् ? हाहान् ॥ हरिः । हरी ॥
जसि च

169

ह्रस्वान्तस्याङ्गस्य गुणः । हरयः ॥
ह्रस्वस्य गुणः

170

सम्बुद्धौ । हे हरे । हरिम् । हरी । हरीन् ॥
शेषो घ्यसखि

171

शेष इति स्पष्टार्थम् । ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम् ॥
आङो नास्त्रियाम्

172

घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासंज्ञा । हरिणा । हरिभ्याम् । हरिभिः ॥
घेर्ङिति

173

घिसंज्ञस्य ङिति सुपि गुणः । हरये । हरिभ्याम् । हरिभ्यः ॥
ङसिङसोश्च

174

एङो ङसिङसोरति पूर्वरूपमेकादेशः । हरेः 2 । हर्योः 2 । हरीणाम् ॥
अच्च घेः

175

इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च । हरौ । हरिषु । एवं कव्यादयः ॥
अनङ् सौ

176

सख्युरङ्गस्यानङादेशो ऽसम्बुद्धौ सौ ॥
अलो ऽन्त्यात्पूर्व उपधा

177

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः ॥
सर्वनामस्थाने चासम्बुद्धौ

178

नान्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने ॥
अपृक्त एकाल् प्रत्ययः

179

एकाल् प्रत्ययो यः सो ऽपृक्तसंज्ञः स्यात् ॥
हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्

180

हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते ॥
नलोपः प्रातिपदिकान्तस्य

181

प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः । सखा ॥
सख्युरसंबुद्धौ

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc