भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 142-161

142

यञादौ सुपि अतो ऽङ्गस्य दीर्घः । रामाभ्याम् ॥
अतो भिस ऐस्

143

अनेकाल्शित्सर्वस्य । रामैर्ः ॥
ङेयः

144

अतो ऽङ्गात्परस्य ङेयदिशः ॥
स्थानिवदादेशो ऽनल्विधौ

145

आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ । इति स्थानिवत्त्वात् सुपि चेति दीर्घः । रामाय । रामाभ्याम् ॥
बहुवचने झल्येत्

146

झलादौ बहुवचने सुप्यतो ऽङ्गस्यैकारः । रामेभ्यः । सुपि किम् ? पचध्वम् ॥
वावसाने

147

अवसाने झलां चरो वा । रामात्, रामाद् । रामाभ्याम् । रामेभ्यः । रामस्य ॥
ओसि च

148

अतो ऽङ्गस्यैकारः । रामयोः ॥
ह्रस्वनद्यापो नुट्

149

ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः ॥
नामि

150

अजन्ताङ्गस्य दीर्घः । रामाणाम् । रामे । रामयोः । सुपि - एत्त्वे कृते ॥
आदेशप्रत्यययोः

151

इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः । ईषद्विवृतस्य सस्य तादृश एव षः । रामेषु । एवं कृष्णादयो ऽप्यदन्ताः ॥
सर्वादीनि सर्वनामानि

152

सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥
जसः शी

153

अदन्तात्सर्वनाम्नो जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । सर्वे ॥
सर्वनाम्नः स्मै

154

अतः सर्वनाम्नो डेः स्मै । सर्वस्मै ॥
ङसिङ्योः स्मात्स्मिनौ

155

अतः सर्वनाम्न एतयोरेतौ स्तः । सर्वस्मात् ॥
आमि सर्वनाम्नः सुट्

156

अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः । एत्वषत्वे । सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयो ऽप्यदन्ताः ॥ उभ शब्दो नित्यं द्विवचनान्तः । उभौ 2 । उभाभ्याम् 3 । उभयोः 2 । तस्येह पाठो ऽकजर्थः । उभय शब्दस्य द्विवचनं नास्ति । उभयः । उभये । उभयम् । उभयान् । उभयेन । उभयैः । उभयस्मै । उभयेभ्यः । उभयस्मात् । उभयेभ्यः । उभयस्य । उभयेषाम् । उभयस्मिन् । उभयेषु ॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः ॥ नेम इत्यर्धे ॥ समः सर्वपर्याय स्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात् ॥
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्

157

एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे, पूर्वाः । असंज्ञायां किम् ? उत्तराः कुरवः । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः ॥
स्वमज्ञातिधनाख्यायाम्

158

ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा । स्वे, स्वाः; आत्मीयाः, आत्मान इति वा । ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोर्ऽथा वा ॥
अन्तरं बहिर्योगोपसंव्यानयोः

159

बाह्ये परिधानीये चार्थे ऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा । अन्तरे, अन्तरा वा गृहाः; बाह्या इत्यर्थः । अन्तरे, अन्तरा वा शाटकाः; परिधानीया इत्यर्थः ॥
पूर्वादिभ्यो नवभ्यो वा

160

एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन्, पूर्वे । एवं परादीनाम् । शेषं सर्ववत् ॥
प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च

161

एते जसि उक्तसंज्ञा वा स्युः । प्रथमे, प्रथमाः ॥ तयः प्रत्ययः । द्वितये, द्वितयाः । शेषं रामवत् ॥ नेमे, नेमाः । शेषं सर्ववत् ॥ ( तीयस्य ङित्सु वा ) । द्वितीयस्मै, द्वितीयायेत्यादि । एवं तृतीयः ॥ निर्जरः ॥
जराया जरसन्यतरस्याम्

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc