लघुसिद्धान्तकौमुदी · श्लोक 1244-1263
अण् स्यात् । प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्
बहूनि ददाति बहुशः । अल्पशः । ( आद्यादिभ्यस्तसेरुपसंख्यानम् ) । आदौ आदितः । मध्यतः । अन्ततः । पृष्ठतः । पार्श्वतः । आकृतिगणो ऽयम् । स्वरेण, स्वरतः । वर्णतः ॥
कृभ्वस्तियोगे संपद्यकर्तरि च्विः
(अभूततद्भाव इति वक्तव्यम् )। विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे॥
अस्य च्वौ
अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपे च्व्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् । (अव्ययस्य च्वावीत्वं नेति वाच्यम् ) । दोषाभूतमहः । दिवाभूता रात्रिः ॥
विभाषा साति कार्त्स्न्ये
च्विविषये सातिर्वा स्यात्साकल्ये ॥
सात्पदाद्योः
सस्य षत्वं न स्यात् । कृत्स्नं शस्त्रमग्निः संपद्यते ऽग्निसाद्भवति । दधि सिञ्चति ॥
च्वौ च
च्वौ परे पूर्वस्य दीर्घः स्यात् । अग्नीभवति ॥
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्
द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे । (डाचि विवक्षिते द्वे बहुलम् ) । इति डाचि विवक्षिते द्वित्वम् । ( नित्यमाम्रेडिते डाचीति वक्तव्यम् ) । डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् ? ईषत्करोति । द्व्यजवरार्धात्किम् ? श्रत्करोति । अवरेति किम् ? खरटखरटाकरोति । अनितौ किम् ? पटिति करोति ॥
इति स्वार्थिकाः ॥ 16 ॥
॥ इति तद्धिताः ॥
अथ स्त्रीप्रत्ययाः
स्त्रियाम्
अधिकारो ऽयम् । समर्थानामिति यावत् ॥
अजाद्यतष्टाप्
अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजा । एडका । अश्वा । चटका । मूषिका । बाला । वत्सा । होडा । मन्दा । विलाता । इत्यादि ॥ मेधा । गङ्गा । सर्वा ॥
उगितश्य
उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात् । भवती । भवन्ती । पचन्ती । दीव्यन्ती ॥
टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः
अनुपसर्दनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात् । कुरुचरी । नदट् नदी । देवट् देवी । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी । ( नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् ) । स्त्रैणी । पैंस्नी । शाक्तीकी । याष्टीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥
यञश्च
यञन्तात् स्त्रियां ङीप्स्यात् । अकारलोपे कृते - .
हलस्तद्धितस्य
हलः परस्य तद्धितयकारस्योपधाभूतस्य सोप ईति परे । गार्गी ॥
प्राचां ष्फ तद्धितः
यञन्तात् ष्फो वा स्यात्स च तद्धितः ॥
षिद्गौरादिभ्यश्च
षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । गार्ग्यायणी । नर्तकी । गौरी । अनुडुही । अनड्वाही । आकृतिगणो ऽयम् ॥
वयसि प्रथमे
प्रथमवयोवाचिनो ऽदन्तात् स्त्रियां ङीप्स्यात् । कुमारी ॥
द्विगोः
अदन्ताद् द्विगोर्ङीप्स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
वर्णादनुदात्तात्तोपधात्तो नः
वर्णवाची यो ऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च । एनी, एता । रोहिणी, रोहिता ॥
वोतो गुणवचनात्
उदन्ताद् गुणवाचिनो वा ङीष् स्यात् । मृद्वी, मृदुः ॥
बह्वादिभ्यश्च
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0