लघुसिद्धान्तकौमुदी · श्लोक 1224-1243
एतौ घसंज्ञौ स्तः ॥
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किन्तमाम् । प्राह्णेतमाम् । पचतिमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥
द्विवचनविभज्योपपदे तरबीयसुनौ
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरो लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः ॥
प्रशस्यस्य श्रः
अस्य श्रादेशः स्यादजाद्योः परतः ॥
प्रकृत्यैकाच्
इष्ठादिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः, श्रेयान् ॥
ज्य च
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥
ज्यादादीयसः
आदेः परस्य । ज्यायान् ॥
बहोर्लोपो भू च बहोः
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥
इष्ठस्य यिट् च
बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः ॥
विन्मतोर्लुक्
विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः
ईषदूनो विद्वान् विद्वत्कल्पः । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥
विभाषा सुपो बहुच् पुरस्तात्तु
ईषदसमाप्तिविशिष्टेर्ऽथे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् ? जयति कल्पम् ॥
प्रगिवात्कः
इवे प्रतिकृतावित्यतः प्राक्काधिकारः ॥
अव्ययसर्वनाम्नामकच् प्राक् टेः
कापवादः । तिङश्चेत्यनुवर्तते ॥
अज्ञाते
कस्यायमश्वो ऽश्वकः। उच्चकैः। नीचकैः। सर्वके । ( ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य )। युष्मकाभिः । युवकयोः । त्वयका ॥
कुत्सिते
कुत्सितो ऽश्वो ऽश्वकः ॥
किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्
अनयोः कतरो वैष्णवः । यतरः । ततरः ॥
वा बहूनां जातिपरिप्रश्ने डतमच्
जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात् । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः ॥
इति प्रागिवीयाः ॥ 15 ॥
अथ स्वार्थिकाः
इवे प्रतिकृतौ
कन् स्यात् । अश्व इव प्रतिकृतिरश्वकः । ( सर्वप्रातिपदिकेभ्यः स्वार्थे कन् ) । अश्वकः ॥
तत्प्रकृतवचने मयट्
प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम् । भावे अधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । द्वितीये तु अन्नमयो यज्ञः । अपूपमयं पर्व ॥
प्रज्ञादिभ्यश्च
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0