लघुसिद्धान्तकौमुदी · श्लोक 1264-1279
एभ्यो वा ङीष् स्यात् । बह्वी, बहुः । ( कृदिकारादक्तिन ः)। रात्री, रात्रिः । ( सर्वतो ऽक्तिन्नर्थादित्येके )। शकटी । शकटिः ॥
पुंयोगादाख्यायाम्
या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् । गोपस्य स्त्री गोपी । ( पालकान्तान्न ) - .
प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः
प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत् । गोपालिका । अश्वपालिका । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । ( सूर्याद्देवतायां चाब्वाच्य ः) । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? ( सूर्यागस्त्ययोश्छे च ङ्यां च ) । यलोपः । सूरी - कुन्ती; मानुषीयम् ॥
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलचार्याणामानुक् व्ल्क्_1266 =
एषामानुगागमः स्यात् ङीष् च । इन्द्रस्य स्त्री - इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । ( हिमारण्ययोर्महत्त्वे ) । महद्धिमं हिमानी । महदरण्यमरण्यानी । ( यवाद्दोषे ) । दुष्टो यवो यवानी । ( यवनाल्लिप्याम् ) । यवनानां लिपिर्यवनानी । ( मातुलोपाध्याययोरानुग्वा ) । मातुलानी, मातुली । उपाध्यायानी, उपाध्यायी । ( आचार्यादणत्वं च ) । आचार्यस्य स्त्री आचार्यानी । (अर्यक्षत्रियाभ्यां वा स्वार्थे ), अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया ॥
क्रीतात्करणपूर्वात्
क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष्स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्
असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष्वा स्यात् । केशानतिक्रान्ता - अतिकेशी, अतिकेशा । चन्द्रमुखी चन्द्रमुखा । असंयोगोपधात्किम् ? सुगुल्फा । उपसर्जनात्किम् ? शिखा ॥
न क्रोडादिबह्वचः
क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । आकृतिगणो ऽयम् । सुजघना ॥
नखमुखात्संज्ञायाम्
न ङीष् ॥
पूर्वपदात्संज्ञायामगः
पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥
जातेरस्त्रीविषयादयोपधात्
जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् । तटी । वृषली । कठी । बह्वृची । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया । ( योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेध ः) । हयी । गवयी । मुकयी । हलस्तद्धितस्येति यलोपः । मनुषी । ( मत्स्यस्य ङ्याम् ) । यलोपः । मत्सी ॥
इतो मनुष्यजातेः
ङीष् । दाक्षी ॥
ऊङुतः
उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः । अयोपधात्किम् ? अध्वर्युर्ब्राह्मणी ॥
पङ्गोश्च
पङ्गूः । ( श्वशुरस्योकाराकारलोपश्च ) । श्वश्रूः ॥
ऊरूत्तरपदादौपम्ये
उपमानवाची पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥
संहिताशफलक्षणवामादेश्च
अनौपम्यार्थं सूत्रम् । संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः ॥
शार्ङ्गरवाद्यञो ङीन्
शार्ङ्गरवादेरञो यो ऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात्। शार्ङ्गरवी। बैदी । ब्राह्मणी । ( नृनरयोर्वृद्धिश्च )। नारी ॥
यूनस्तिः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0