भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 1204-1223

1204

किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः, कस्मात् ॥
इदम इश्

1205

प्राग्दिशीये परे । इतः ॥
अन्

1206

एतदः प्राग्दिशीये । अनेकाल्त्वात्सर्वादेशः । अतः । अमुतः । यतः । ततः । बहुतः । द्व्यादेस्तु द्वाभ्याम् ॥
पर्यभिभ्यां च

1207

आभ्यां तसिल् स्यात् । परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥
सप्तम्यास्त्रल्

1208

कुत्र । यत्र । तत्र । बहुत्र ॥
इदमो हः

1209

त्रलो ऽपवादः । इह ॥
किमो ऽत्

1210

वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमो ऽद्वा स्यात् पक्षे त्रल् ॥
क्वाति

1211

किमः क्वादेशः स्यादति । क्व । कुत्र ॥
इतराभ्यो ऽपि दृश्यन्ते

1212

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । दृशिग्रहणाद्भवदादियोग एव । स भवान् । ततो भवान् । तत्र भवान् । तम्भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान् ॥
सर्वैकान्यकिंयत्तदः काले दा

1213

सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् ॥
सर्वस्य सो ऽन्यतरस्यां दि

1214

दादौ प्राग्दिशीये सर्वस्य सो वा स्यात् । सर्वस्मिन् काले सदा सर्वदा । अन्यदा । कदा । यदा । तदा । काले किम् ? सर्वत्र देशे ॥
इदमो र्हिल्

1215

सप्तम्यन्तात् काल इत्येव ॥
एतेतौ रथोः

1216

इदम्शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे। अस्मिन् काले एतर्हि। काले किम्? इह देशे ॥
अनद्यतने र्हिलन्यतरस्याम्

1217

कर्हि, कदा । यर्हि, यदा । तर्हि, तदा ॥
एतदः

1218

एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये । एतस्मिन् काले एतर्हि ॥
प्रकारवचने थाल्

1219

प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे । तेन प्रकारेण तथा । यथा ॥
इदमस्थमुः

1220

थालो ऽपवादः । ( एतदो ऽपि वाच्य ः) । अनेन एतेन वा प्रकारेण इत्थम् ॥
किमश्च

1221

केन प्रकारेण कथम् ॥
इति प्राग्दिशीयाः ॥ 14 ॥
अथ प्रागिवीयाः
अतिशायने तमबिष्ठनौ

1222

अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः । अयमेषामतिशयेनाढ्यः आढ्यतमः । लघुतमः, लघिष्ठः ॥
तिङश्च

1223

तिङन्तादतिशये द्योत्ये तमप् स्यात् ॥
तरप्तमपौ घः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc