लघुसिद्धान्तकौमुदी · श्लोक 122-141
इत्यधिकृत्य । ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः ॥
सुपः
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥
द्व्येकयोर्द्विवचनैकवचने
द्वित्वैकत्वयोरेते स्तः ॥
विरामो ऽवसानम्
वर्णानामभावो ऽवसानसंज्ञः स्यात् । रुत्वविसर्गौ । रामः ॥
सरूपाणामेकशेष एकविभक्तौ
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥
प्रथमयोः पूर्वसवर्णः
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥
नादिचि
आदिचि न पूर्वसवर्णदीर्घः । वृद्धिरेचि । रामौ ॥
बहुषु बहुवचनम्
बहुत्वविवक्षायां बहुवचनं स्यात् ॥
चुटू
प्रत्ययाद्यौ चुटू इतौ स्तः ॥
विभक्तिश्च
सुप्तिङौ विभक्तिसंज्ञौ स्तः ॥
न विभक्तौ तुस्माः
विभक्तिस्थास्तवर्गसमा नेतः । इति सस्य नेत्त्वम् । रामाः ॥
एकवचनं सम्बुद्धिः
सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् ॥
यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ऽङ्गम्
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात् ॥
एङ्ह्रस्वात्सम्बुद्धेः
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत् । हे राम । हे रामौ । हे रामाः ॥
अमि पूर्वः
अको ऽम्यचि पूर्वरूपमेकादेशः । रामम् । रामौ ॥
लशक्वतद्धिते
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः ॥
तस्माच्छसो नः पुंसि
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि ॥
अट्कुप्वाङ्नुम्व्यवाये ऽपि
अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने ऽपि रषाभ्यां परस्य नस्य णः समानपदे । इति प्राप्ते ॥
पदान्तस्य
नस्य णो न । रामान् ॥
टाङसिङसामिनात्स्याः
अदन्ताट्टादीनामिनादयः स्युः । णत्वम् । रामेण ॥
सुपि च
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0