लघुसिद्धान्तकौमुदी · श्लोक 101-121
कान्नकारस्य रुः स्यादाम्रेडिते । कांस्कान्, कांस्कान् ॥
छे च
ह्रस्वस्य छे तुक् । शिवच्छाया ॥
पदान्ताद्वा
दीर्घात् पदान्तात् छे तुग्वा । लक्ष्मीच्छाया, लक्ष्मी छाया ॥
इति हल्सन्धिः ।
अथ विसर्गसन्धिः
विसर्जनीयस्य सः
खरि । विष्णुस्त्राता ॥
वा शरि
शरि विसर्गस्य विसर्गो वा । हरिः शेते, हरिश्शेते ॥
समजुषो रुः
पदान्तस्य सस्य सजुषश्च रुः स्यात् ॥
अतो रोरप्लुतादप्लुतादप्लुते
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति । शिवोर्ऽच्यः ॥
हशि च
तथा । शिवो वन्द्यः ॥
भो भगो अघो अपूर्वस्य यो ऽशि
एतत्पूर्वस्य रोर्यादेशो ऽशि । देवा इह, देवायिह । भोस् भगोस् अघोस् इति सान्ता निपाताः । तेषां रोर्यत्वे कृते ॥
हलि सर्वेषाम्
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि । भो देवाः । भगो नमस्ते । अघो याहि ॥
रो ऽसुपि
अह्नो रेफादेशो न तु सुपि । अहरहः । अहर्गणः ॥
रो रि
रेफस्य रेफे परे लोपः ॥
ढ्रलोपे पूर्वस्य दीर्घो ऽणः
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः । पुना रमते । हरी रम्यः । शम्भू राजते । अणः किम् ? तृढः । वृढः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥
विप्रतिषेधे परं कार्यम्
तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥
एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे । एष विष्णुः । स शम्भुः । अकोः किम् ? एषको रुद्रः । अनञ्समासे किम् ? असः शिवः । हलि किम् ? एषो ऽत्र ॥
सो ऽचि लोपे चेत्पादपूरणम्
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत । सेमामविड्ढि प्रभृतिम् । सैष दाशरथी रामः ॥
इति विसर्गसन्धिः ॥
इति पञ्चसन्धिप्रकरणम् ।
अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः
अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥
कृत्तद्धितसमासाश्च
कृत्तद्धितान्तौ समासाश्च तथा स्युः ॥
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् व्ल्क्_118 =
सु औ जस् इति प्रथमा । अम् औट् शस् इति द्वितीया । टा भ्याम् भिस् इति तृतीया । ङे भ्याम् भ्यस् इति चतुर्थी । ङसि भ्याम् भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी ॥
ङ्याप्प्रातिपदिकात्
प्रत्ययः
परश्च
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0