भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 1184-1203

1184

तृतीयः ॥
श्रोत्रियंश्छन्दो ऽधीते

1185

श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥
पूर्वादिनिः

1186

पूर्वं कृतमनेन पूर्वी ॥
सपूर्वाच्च

1187

कृतपूर्वा ॥
इष्टादिभ्यश्च

1188

इष्टमनेन इष्टी । अधीती ॥
इति भवनाद्यर्थकाः ॥ 12 ॥
अथ मत्वर्थीयाः
तदस्यास्त्यस्मिन्निति मतुप्

1189

गावो ऽस्यास्मिन्वा सन्ति गोमान् ॥
तसौ मत्वर्थे

1190

तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । गरुत्मान् । वसोः संप्रसारणं । विदुष्मान् । ( गुणवचनेभ्यो मतुपो लुगिष्ट ः) । शुक्लो गुणो ऽस्यास्तीति शुक्लः पटः । कृष्णः ॥
प्राणिस्थादातो लजन्यतरस्याम्

1191

चूडालः । चूडावान् । प्राणिस्थात्किम् ? शिखावान्दीपः । प्राण्यङ्गादेव । मेधावान् ॥
लोमादिपामादिपिच्छादिभ्यः शनेलचः

1192

लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः । (ग. सू.) अङ्गात्कल्याणे । अङ्गना । (ग. सू.) लक्ष्म्या अच्च । लक्ष्मणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् ॥
दन्त उन्नत उरच्

1193

उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥
केशाद्वो ऽन्यतरस्याम्

1194

केशवः । केशी । केशिकः । केशवान् । ( अन्येभ्यो ऽपि दृश्यते ) । मणिवः । ( अर्णसो लोपश्च ) । अर्णवः ॥
अत इनिठनौ

1195

दण्डी । दण्डिकः ॥
व्रीह्यादिभ्यश्च

1196

व्रीही । व्रीहिकः ॥
अस्मायामेधास्रजो विनिः

1197

यशस्वी । यशस्वान् । मायावी । मेधावी । स्रग्वी ॥
वचो ग्मिनिः

1198

वाग्ग्मी ॥
अर्शआदिभ्यो ऽच्

1199

अर्शो ऽस्य विद्यते अर्शसः । आकृतिगणो ऽयम् ॥
अहंशुभमोर्युस्

1200

अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥
इति मत्वर्थीयाः ॥ 13 ॥
अथ प्राग्दिशीयाः
प्राग्दिशो विभक्तिः

1201

दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥
किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः

1202

किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशो ऽधिक्रियते ॥
पञ्चम्यास्तसिल्

1203

पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात् ॥
कु तिहोः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc