भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 1164-1183

1164

चाद्भावे । जडस्य भावः कर्म वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । आकृतिगणो ऽयम् ॥
सख्युर्यः

1165

सख्युर्भावः कर्म वा सख्यम् ॥
कपिज्ञात्योर्ढक्

1166

कापेयम् । ज्ञातेयम् ।
पत्यन्तपुरोहितादिभ्यो यक्

1167

सैनापत्यम् । पौरोहित्यम् ॥
इति त्वतलोरधिकारः ॥ 11 ॥
अथ भवनाद्यर्थकाः
धान्यानां भवने क्षेत्रे खञ्

1168

भवत्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥
व्रीहिशाल्योर्ढक्

1169

व्रैहेयम् । शालेयम् ॥
हैयङ्गवीनं संज्ञायाम्

1170

ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम् ॥
तदस्य संजातं तारकादिभ्य इतच्

1171

तारकाः संजाता अस्य तारकितं नभः । पण्डितः । आकृतिगणो ऽयम् ॥
प्रमाणे द्वयसज्दघ्नञ्मात्रचः

1172

तदस्येत्यनुवर्तते । ऊरू प्रमाणमस्य - ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् ॥
यत्तदेतेभ्यः परिमाणे वतुप्

1173

यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
किमिदंभ्यां वो घः

1174

आभ्यां वतुप् स्याद् वकारस्य घश्च ॥
इदंकिमोरीश्की

1175

दृग्दृशवतुषु इदम ईश् किमः किः । कियान् । इयान् ॥
संख्याया अवयवे तयप्

1176

पञ्च अवयवा अस्य पञ्चतयम् ॥
द्वित्रिभ्यां तयस्यायज्वा

1177

द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥
उभादुदात्तो नित्यम्

1178

उभशब्दात्तयपो ऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥
तस्य पूरणे डट्

1179

एकादशानां पूरणः एकादशः ॥
नान्तादसंख्यादेर्मट्

1180

डटो मडागमः । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् ? .
ति विंशतेर्डिति

1181

विंशतेर्भस्य तिशब्दस्य लोपो डिति परे । विंशः । असंख्यादेः किम् ? एकादशः ॥
षट्कतिकतिपयचतुरां थुक्

1182

एषां थुगागमः स्याड्डटि। षण्णां षष्ठः। कतिथः। कतिपयशब्दस्यासंख्यात्वे ऽप्यत एव ज्ञापकाड्डट्। कतिपयथः। चतुर्थः ॥
द्वेस्तीयः

1183

डटो ऽपवादः । द्वयोः पूरणो द्वितीयः ॥
त्रेः संप्रसारणं च

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc