लघुसिद्धान्तकौमुदी · श्लोक 1144-1163
दन्त्यम् । कण्ठ्यम् । नस्यम् ॥
आत्मन्विश्वजनभोगोत्तरपदात्खः
आत्माध्वानौ खे
एतौ खे प्रकृत्या स्तः । आत्मने हितम् आत्मनीनम् । विश्वजनीनम् । मातृभोगीणः ॥
इति छयतोरवधिः । (प्राक्क्रीतीयाः) ॥ 9 ॥
अथ ठञधिकारः
प्राग्वतेष्ठञ्
तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥
तेन क्रीतम्
सप्तत्या क्रीतं साप्ततिकम् । प्रास्थिकम् ॥
सर्वभूमिपृथिवीभ्यामणञौ
तस्येश्वरः
सर्वभूमिपृथिवीभ्यामणञौ स्तः । अनुशतिकादीनां च । सर्वभूमेरीश्वरः सार्वभौमः । पार्थिवः ॥
पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
एते रूढिशब्दा निपात्यन्ते ॥
तदर्हति
लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः ॥
दण्डादिभ्यो यत्
एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः । वध्यः ॥
तेन निर्वृत्तम्
अह्ना निर्वृत्तम् आह्निकम् ॥
इति ठञो ऽवधिः । (प्राग्वतीयाः) ॥ 10 ॥
अथ त्वतलोरधिकारः
तेन तुल्यं क्रिया चेद्वतिः
ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते । क्रिया चेदिति किम् ? गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥
तत्र तस्येव
मथुरायामिव मथुरावत् स्रुग्ध्ने प्रकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥
तस्य भावस्त्वतलौ
प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबम् ॥
आ च त्वात्
ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थमिदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः - स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौस्नम् । पुंस्त्वम् । पुंस्ता ॥
पृथ्वादिभ्य इमनिज्वा
वावचनमणादिसमावेशार्थम् ॥
र ऋतो हलादेर्लघोः
हलादेर्लघोरृकारस्य रः स्यादिष्ठेयस्सु परतः । पृथुमृदुभृशकृशदृढपरिवृढा नामेव रत्वम् ॥
टेः
भस्य टेर्लोप इष्ठेमेयस्सु । पृथोर्भावः प्रथिमा - .
इगन्ताच्च लघुपूर्वात्
इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावे ऽण् प्रत्ययः । पार्थवम् । म्रदिमा, मार्दवम् ॥
वर्णदृढादिभ्यः ष्यञ्च
चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् । द्रढिमा ॥
गुणवचनब्राह्मणादिभ्यः कर्मणि च
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0