लघुसिद्धान्तकौमुदी · श्लोक 1123-1143
तेनेत्येव । उडुपेन तरति औडुपिकः ॥
चरति
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः ॥
संसृष्टे
दध्ना संसृष्टं दाधिकम् ॥
उञ्छति
बदराण्युञ्छति बादरिकः ॥
रक्षति
समाजं रक्षति सामाजिकः ॥
शब्ददर्दुरं करोति
शब्दं करोति शाब्दिकः । दर्दुरं करोति दार्दुरिकः ॥
धर्मं चरति
धार्मिकः ( अधर्माच्चेति वक्तव्यम् ) । आधर्मिकः ॥
शिल्पम्
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥
प्रहरणम्
तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥
शीलम्
अपूपभक्षणं शीलमस्य आपूपिकः ॥
निकटे वसति
नैकटिको भिक्षुकः ॥
इति ठगधिकारः । (प्राग्वहतीयाः) ॥ 7 ॥
अथ यदधिकारः
प्राग्घिताद्यत्
तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥
तद्वहति रथयुगप्रासङ्गम्
रथं वहति रथ्यः । युग्यः । प्रासङ्ग्यः ॥
धुरो यड्ढकौ
हलि चेति दीर्घे प्राप्ते - .
न भकुर्छुराम्
भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात् । धुर्यः । धौरेयः ॥
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु
नावा तार्यं नाव्यं जलम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया संमितम् तुल्यम् ॥
तत्र साधुः
अग्रे साधुः - अग्र्यः । सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृति भावः । कर्मण्यः । शरण्यः ॥
सभाया यः
सभ्यः ॥
इति यतो ऽवधिः । (प्राग्घितीयाः) ॥ 8 ॥
अथ छयतोरधिकारः
प्राक् क्रीताच्छः
तेन क्रीतमित्यतः प्राक् छो ऽधिक्रियते ॥
उगवादिभ्यो यत्
प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत् स्यात् । छस्यापवादः । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । ( नाभि नभं च ) । नभ्यो ऽक्षः । नभ्यमञ्जनम् ॥
तस्मै हितम्
वत्सेभ्यो हितो वत्सीयो गोधुक् ॥
शरीरावयवाद्यत्
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0