लघुसिद्धान्तकौमुदी · श्लोक 1103-1122
शुल्कशालाया आगतः शौल्कशालिकः ॥
विद्यायोनिसंबन्धेभ्यो वुञ्
औपाध्यायकः । पैतामहकः ॥
हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः
समादागतं समरूप्यम् । पक्षे - गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । दैवदत्तम् ॥
मयट् च
सममयम् । देवदत्तमयम् ॥
प्रभवति
हिमवतः प्रभवति हैमवती गङ्गा ॥
तद्गच्छति पथिदूतयोः
स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा ॥
अभिनिष्क्रामति द्वारम्
स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम् ॥
अधिकृत्य कृते ग्रन्थे
शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः ॥
सो ऽस्य निवासः
स्रुग्घ्नो निवासो ऽस्य स्रौग्घ्नः ॥
तेन प्रोक्तम्
पाणिनिना प्रोक्तं पाणिनीयम् ॥
तस्येदम्
उपगोरिदम् औपगवम् ॥
इति शैषिकाः ॥ 5 ॥
अथ विकारार्थकाः
तस्य विकारः
(अश्मनो विकारे टिलोपो वक्तव्य ः) । अश्मनो विकारः आश्मः । भास्मनः । मार्त्तिकः ॥
अवयवे च प्राण्योषधिवृक्षेभ्यः
चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः
प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः। अश्ममयम्, आश्मनम्। अभक्ष्येत्यादि किम्? मौद्गः सूपः। कार्पासमाच्छादनम् ॥
नित्यं वृद्धशरादिभ्यः
आम्रमयम् । शरमयम् ॥
गोश्च पुरीषे
गोः पुरीषं गोमयम् ॥
गोपयसोर्यत्
गव्यम् । पयस्यम् ॥
इति विकारार्थाः । (प्राग्दीव्यतीयाः) ॥ 6 ॥
अथ ठगधिकारः
प्राग्वहतेष्ठक्
तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥
तेन दीव्यति खनति जयति जितम्
अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः ॥
संस्कृतम्
दध्ना संस्कृतम् दाधिकम् । मारीचिकम् ॥
तरति
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0