लघुसिद्धान्तकौमुदी · श्लोक 1083-1102
चाच्छः । पक्षे ऽण् । युवयोर्युष्माकं युष्मदीयः, अस्मदीयः ॥
तस्मिन्नणि च युष्माकास्माकौ
युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः ॥
तवकममकावेकवचने
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु - .
प्रत्ययोत्तरपदयोश्च
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः । त्वदीयः । मदीयः । त्वत्पुत्रः । मत्पुत्रः ॥
मध्यान्मः
मध्यमः ॥
कालाट्ठञ्
कालवाचिभ्यष्ठञ् स्यात् । कालिकम् । मासिकम् । सांवत्सरिकम् । (अव्ययानां भमात्रे टिलोप ः) । सायम्प्रातिकः । पौनः पुनिकः ॥
प्रावृष एण्यः
प्रावृषेण्यः ॥
सायञ्चिरम्प्राह्णेप्रगे ऽव्ययेभ्यष्ट्युट्युलौ तुट् च
सायमित्यादिभ्यश्चतुर्भ्यो ऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च । सायन्तनम् । चिरन्तनम् । प्राह्णे प्रगे अनयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् ॥
तत्र जातः
सप्तमीसमर्थाज्जात इत्यर्थे ऽणादयो घादयश्च स्युः । स्रुग्घ्ने जातः स्रौग्घ्नः । उत्से जात औत्सः । राष्ट्रे जातो राष्ट्रियः । अवारपारे जातः अवारपारीणः, इत्यादि॥
प्रावृषष्ठप्
एण्यापवादः । प्रावृषिकः ॥
प्रायभवः
तत्रेत्येव । स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः ॥
सम्भूते
स्रुग्घ्ने संभवति स्रौग्घ्नः ॥
कोशाड्ढञ्
कौशेयम् वस्त्रम् ॥
तत्र भवः
स्रुग्घ्ने भवः स्रौग्घ्नः । औत्सः । राष्ट्रियः ॥
दिगादिभ्यो यत्
दिश्यम् । वर्ग्यम् ॥
शरीरावयवाच्च
दन्त्यम् । कण्ठ्यम् । ( अध्यात्मादेष्ठञिष्यते ) अध्यात्मं भवमाध्यात्मिकम् ॥
अनुशतिकादीनां च
एषामुभयपदवृद्धिर्ञिति णिति किति च। आधिदैविकम्। आधिभौतिकम्। ऐहलौकिकम्। पारलोकिकम्। आकृतिगणो ऽयम् ॥
जिह्वामूलाङ्गुलेश्छः
जिह्वामूलीयम् । अङ्गुलीयम् ॥
वर्गान्ताच्च
कवर्गीयम् ॥
तत आगतः
स्रुग्घ्नादागतः स्रौग्घ्नः ॥
ठगायस्थानेभ्यः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0