लघुसिद्धान्तकौमुदी · श्लोक 1063-1082
विदिशाया अदूरभवं नगरं वैदिशम् ॥
जनपदे लुप्
जनपदे वाच्ये चातुरर्थिकस्य लुप् ॥
लुपि युक्तवद्व्यक्तिवचने
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः । अङ्गाः। वङ्गाः । कलिङ्गाः ॥
वरणादिभ्यश्च
अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥
कुमुदनडवेतसेभ्यो ड्मतुप्
झयः
झयन्तान्मतोर्मस्य वः । कुमुद्वान् । नड्वान् ॥
मादुपधायाश्च मतोर्वो ऽयवादिभ्यः
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः । वेतस्वान् ॥
नडशादाड्ड्वलच्
नड्वलः । शाद्वलः ॥
शिखाया वलच्
शिखावलः ॥
इति चातुरर्थिकाः ॥ 4 ॥
अथ शैषिकाः
शेषे
अपत्यादिचतुरर्थ्यन्तादन्योर्ऽथः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । चतुर्भिरुह्यं चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । "तस्य विकारःऽ; इत्यतः प्राक् शेषाधिकारः ॥
राष्ट्रावारपाराद्घखौ
आभ्यां क्रमाद् घखौ स्तः शेषे । राष्ट्रे जातादिः राष्ट्रियः। अवारपारीणः। (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् ) । अवारीणः। पारीणः। पारावारीणः। इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोर्ऽथविशेषाः समर्थ विभक्तयश्च वक्ष्यन्ते ॥
ग्रामाद्यखञौ
ग्राम्यः । ग्रामीणः ॥
नद्यादिभ्यो ढक्
नादेयम् । माहेयम् । वाराणसेयम् ॥
दक्षिणापश्चात्पुरसस्त्यक्
दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥
द्युप्रागपागुदक्प्रतीचो यत्
दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥
अव्ययात्त्यप्
(अमेहक्वतसित्रेभ्य एव ) । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । ( त्यब्नेर्ध्रुव इति वक्तव्यम् ) । नित्यः ॥
वृद्धिर्यस्याचामादिस्तद्वृद्धम्
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥
त्यदादीनि च
वृद्धसंज्ञानि स्युः ॥
वृद्धाच्छः
शालीयः । मालीयः । तदीयः । ( वा नामधेयस्य वृद्धसंज्ञा वक्तव्या ) । देवदत्तीयः, दैवदत्तः ॥
गहादिभ्यश्च
गहीयः ॥
युष्मदस्मदोरन्यतरस्यां खञ् च
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0