भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 1043-1062

1043

शरावे उद्धृतः शाराव ओदनः ॥
संस्कृतं भक्षाः

1044

सप्तम्यन्तादण् स्यात्संस्कृतेर्ऽथे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः ॥
सास्य देवता

1045

इन्द्रो देवतास्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् ॥
शुक्राद्घन्

1046

शुक्रियम् ॥
सोमाट्ट्यण्

1047

सौम्यम् ॥
वाय्वृतुपित्रुषसो यत्

1048

वायव्यम् । ऋतव्यम् ॥
रीङ् ऋतः

1049

अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः । यस्येति च । पित्र्यम् । उषस्यम् ॥
पितृव्यमातुलमातामहपितामहाः

1050

एते निपात्यन्ते । पितुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । मातुः पिता मातामहः । पितुः पिता पितामहः ॥
तस्य समूहः

1051

काकानां समूहः काकम् ॥
भिक्षादिभ्यो ऽण्

1052

भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह ( भस्याढे तद्धिते ) । इति पुंवद्भावे कृते - .
इनण्यनपत्ये

1053

अनपत्यार्थे ऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् ॥
ग्रामजनबन्धुभ्यस्तल्

1054

तलन्तं स्त्रियाम् । ग्रमता । जनता । बन्धुता । ( गजसहायाभ्यां चेति वक्तव्यम् ) । गजता । सहायता । (अह्नः खः क्रतौ ) । अहीनः ॥
अचित्तहस्तिधेनोष्ठक्

1055

इसुसुक्तान्तात्कः

1056

इस् उस् उक्तान्तात्परस्य ठस्य कः । साक्तुकम् । हास्तिकम् । धैनुकम् ॥
तदधीते तद्वेद

1057

न य्वाभ्याम् पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्

1058

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः। व्याकरणमधीते वेद वा वैयाकरणः ॥
क्रमादिभ्यो वुन्

1059

क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥
इति रक्ताद्यर्थकाः ॥ 3 ॥
अथ चातुरर्थिकाः
तदस्मिन्नस्तीति देशे तन्नाम्नि

1060

उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः ॥
तेन निर्वृत्तम्

1061

कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ॥
तस्य निवासः

1062

शिबीनां निवासो देशः शैबः ॥
अदूरभवश्च

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc