भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 1023-1042

1023

संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः ॥
स्त्रीभ्यो ढक्

1024

स्त्रीप्रत्ययान्तेभ्यो ढक् । वैनतेयः ॥
कन्यायाः कनीन च

1025

चादण् । कानीनो व्यासः कर्णश्च ॥
राजश्वशुराद्यत्

1026

( राज्ञो जातावेवेति वाच्यम् ) ॥
ये चाभावकर्मणोः

1027

यादौ तद्धिते परे ऽन् प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । जातावेवेति किम् ? - .
अन्

1028

अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥
क्षत्त्राद् घः

1029

क्षत्त्रियः । जातावित्येव। क्षात्त्रिरन्यत्र ॥
रेवत्यादिभ्यष्ठक्

1030

ठस्येकः

1031

अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥
जनपदशब्दात्क्षत्त्रियादञ्

1032

जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये । पाञ्चालः । ( क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत् ) । पञ्चालानां राजा पाञ्चालः । ( पूरोरण् वक्तव्य ः) । पौरवः । ( पाण्डोर्ड्यण् ) । पाण्ड्यः ॥
कुरुनादिभ्यो ण्यः

1033

कौरव्यः । नैषध्यः ॥
ते तद्राजाः

1034

अञादयस्तद्राजसंज्ञाः स्युः ॥
तद्राजस्य बहुषु तेनैवास्त्रियाम्

1035

बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चालाः इत्यादि ॥
कम्बोजाल्लुक्

1036

अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । ( कम्बोजादिभ्य इति वक्तव्यम् ) । चोलः । शकः । केरलः । यवनः ॥
इत्यपत्याधिकारः ॥ 2 ॥
अथ रक्ताद्यर्थकाः
तेन रक्तं रागात्

1037

अण् स्यात् । रज्यते ऽनेनेति रागः । काषायेण रक्तं वस्त्रं काषायम् ॥
नक्षत्रेण युक्तः कालः

1038

अण् स्यात् । ( तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् ) । पुष्येण युक्तं पौषमहः ॥
लुबविशेषे

1039

पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः ॥
दृष्टं साम

1040

तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम ॥
वामदेवाड्ड्यड्ड्यौ

1041

वामदेवेन दृष्टं साम वामदेव्यम् ॥
परिवृतो रथः

1042

अस्मिन्नर्थे ऽण् प्रत्ययो भवति । वस्त्रेण परिवृतो वास्त्रो रथः ॥
तत्रोद्धृतममत्रेभ्यः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc