भाषा

ENहिગુ
ग्रंथ पाठ

लघुभागवतामृत · अध्याय 1.4

1.4.1

इति लीलावतार-निरूपणम् ॥
चतुर्थः परिच्छेदः
अथ मन्वन्तरावताराः
मन्वन्तरावतारोऽसौ प्रायः शक्रारि-हत्यया ।
तत्-सहायो मुकुन्दस्य प्रादुर्भावः सुरेषु यः

1.4.2

युक्ते कल्पावतारत्वे यज्ञादीनाम् अपि स्फुटम् ।
मन्वतरावतारत्वं तत्-तत्-पर्यन्त-पालनात्

1.4.3

मन्वन्तरेष्व् अमी स्वायम्भुवीयादिष्व् अनुक्रमात् ।
अवतारास् तु यज्ञाद्या बृहद्-भान्व्-अन्तिमा मताः

1.4.4

प्रथमे स्वायम्भुवीये यज्ञः -
यज्ञस् तु पूर्वम् एवोक्तस् तेनात्र न विलिख्यते

1.4.5

यथा अष्टम-स्कन्धे (8.1.21-22)
ऋषेस् तु वेदशिरसस् तुषिता नाम पत्न्य् अभूत् ।
तस्यां जज्ञे ततो देवो विभुर् इत्य् अभिविश्रुतः

1.4.6

अष्टाशीति-सहस्राणि मुनयो ये धृत-व्रताः ।
अन्वशिक्षन् व्रतं तस्य कौमार-ब्रह्मचारिणः

1.4.7

इति ।
तृतीये औत्तमीये सत्यसेनः - (8.1.25-26)
धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।
सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह

1.4.8

सो ऽनृत-व्रत-दुःशीलान् असतो यक्ष-राक्षसान् ।
भूत-द्रुहो भूत-गणांश् चावधीत् सत्यजित्-सखः

1.4.9

इति ।
चतुर्थे तामसीये हरिः (8.1.30)
तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।
हरिर् इत्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात्

1.4.10

इति ।
स्मर्यतेऽसौ सदा प्रातः सदाचार-परायणैः ।
सर्वानिष्ट-विनाशाय हरिर् दनीत्न्द्र-मोचनः

1.4.11

पञ्चमे रैवतीये वैकुण्ठः (8.5.4-5) -
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः ।
तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम्

1.4.12

वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्-प्रिय-काम्यया

1.4.13

इति ।
महा-वैकुण्ठ-लोकस्य व्यापकस्याव्ययात्मनः ।
प्रकटीकरणं सत्योपरि कल्पनम् उच्यते

1.4.14

षष्ठे चाक्षुषीये अजितः (भ्प् 8.5.9-10)
तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः ।
अजितो नाम भगवान् अंशेन जगतः पतिः

1.4.15

पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृतः कूर्म-रूपेण मन्दरः

1.4.16

इति ।
सप्तमे वैवस्वतीये वामनः -
वैवस्वतान्तरे व्यक्तः पुरैवोक्तः स वामनः ।
भविष्याः सप्त कथ्यन्ते ते सावर्ण्यन्तरादिषु

1.4.17

अष्टमे सावर्णनीये सार्वभौमः (भ्प् 8.13.17) -
देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः ।
स्थानं पुरन्दराद् धृत्वा बलये दास्यतीश्वरः

1.4.18

इति ।
नवमे दक्ष-सावर्णनीये ऋषभः (8.13.20) --
आयुष्मतो ऽम्बुधारायाम् ऋषभो भगवत्-कला ।
भविता येन संराद्धां त्रि-लोकीं भोक्ष्यते ऽद्भुतः

1.4.19

इति ।
दशमे ब्रह्म-सावर्णनीये विष्वक्सेनः (8.13.23) --
विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।
जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः

1.4.20

इति ।
एकादशे धर्म-सावर्णनीये धर्मसेतुः (8.13.26) --
आर्यकस्य सुतस् तत्र धर्मसेतुर् इति स्मृतः ।
वैधृतायां हरेर् अंशस् त्रि-लोकीं धारयिष्यति

1.4.21

इति ।
द्वादशे रुद्र-सावर्णनीये सुधामा (8.13.29) --
स्वधामाख्यो हरेर् अंशः साधयिष्यति तन्-मनोः ।
अन्तरं सत्य-सहसः सुनृतायाः सुतो विभुः

1.4.22

त्रयोदशे देव-सावर्णनीये योगेश्वरः (8.13.32) --
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।
योगेश्वरो हरेर् अंशो बृहत्यां सम्भविष्यति

1.4.23

इति ।
चतुर्दशे इन्द्र-सावर्णनीये बृहद्भानुः (8.13.35) --
सत्रायणस्य तनयो बृहद्भानुस् तदा हरिः ।
वितानायां महाराज क्रिया-तन्तून् वितायिता

1.4.24

यज्ञ-वामनयोस् तत्र पुनर् उक्ततया द्वयोः ।
मन्वन्तरावतारास् तु सङ्ख्यायां द्वादशोदिताः

1.4.25

इति मन्वन्तरावतार-निरूपणम् ।
अथ युगावताराः -
कथ्यन्ते वर्णनामाभ्यां शुक्लः सत्य-युगे हरिः ।
रक्तः श्यामः क्रमात् कृष्णस् त्रेतायां द्वापरे कलौ

1.4.26

उपासनाविशेषार्थं सत्यादिषु युगेष्व् असौ ।
मन्वन्तरावतारस् तु तथावतरति क्रमात्

1.4.27

कल्प-मन्वन्तर-युग-प्रादुर्भाव-विधायिनः ।
अवतारा इमे त्व् एक-चत्वारिंशद् उदीरिताः

1.4.28

वृत्ता ब्राह्मादयः कल्पाः पाद्मान्तास् ते सहस्रशः ।
वर्तमानस् तु कल्पोऽयं श्वेत-वाराह उच्यते

1.4.29

ब्राह्म-कल्प-प्रथम-जे व्यक्ताः स्वायम्भुवान्तरे ।
कुमार-नारदाद्याश् च चाक्षुषीयादिषूत्तरे

1.4.30

प्रायः स्वायम्भुवाद्याख्याः कल्पे कल्पे भवन्त्य् अमी ।
मनवस् तेऽवताराश् च तथा यज्ञादि-नामकाः

1.4.31

तथा हि श्री-विष्णु-धर्मोत्तरे श्री-रुद्र-प्रश्नः -
य एते भवता प्रोक्ता मनवश् च चतुर्दश ।
नित्यं ब्रह्म-दिने प्राप्ते एत एव क्रमाद् द्विज ।
भवन्त्य् उतान्ये धर्मज्ञ एतं मे छिन्धि संशयम्

1.4.32

श्री-मार्कण्डेयोत्तरम् -
एत एव महाराज मनवश् च चतुर्दश ।
कल्पे कल्पे त्वया ज्ञेया नात्र कार्या विचारणा

1.4.33

एक-रूपास् त्वया प्रोक्ता ज्ञातव्याः सर्व एव हि ।
केचित् किञ्चिद् विभिन्नाश् च मायया परमेशितुः

1.4.34

इति ।
अवताराश् चतुर्धा स्युर् आवेशाः प्राभवा अपि ।
अथैव वैभवावस्थाः परावअस्थाश् च तत्र ते

1.4.35

तत्रावेशावतारास् तु ज्ञेयाः पूर्वोक्त-रीतितः ।
यथा कुमार-देवर्षि-वेणाङ्ग-प्रभावादयः

1.4.36

यथा पाद्मे -
आविष्टोऽभूत् कुमारेषु नारदे च हरिर् विभुः

1.4.37

यथा तत्रैव --
आविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः

1.4.38

आविष्टो भार्गवे चाभूद् इति तत्रैव कीर्तितम्

1.4.39

तथा हि -
एतत् ते कथितं देवि जामदग्नेर् महात्मनः ।
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः

1.4.40

इति ।
आवेशत्वं कल्किनोऽपि विष्णुधर्मे विलोक्यते

1.4.41

यथा -
प्रत्यक्ष-रूप-धृग्-देवो दृश्यते न कलौ हरिः ।
कृतादिष्व् इव तेनैव त्रि-युगः परिपठ्यते

1.4.42

कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम्

1.4.43

पूर्वोत्पन्नेष् भूतेषु तेषु तेषु कलौ प्रभुः ।
कृत्वा प्रवेशं कुरुते यद् अभिप्रेतम् आत्मनः

1.4.44

इति ।
अतोऽमीष्वतारत्वं परं स्याद् औपचारिकम्

1.4.45

अथ प्राभव-वैभवाः ।
हरि-स्वरूप-रूपा ये परावस्थेभ्य उनकाः ।
शक्तीनां तारतम्येन क्रमात् ते तत्-तद्-आख्यकाः

1.4.46

प्राभवाश् च द्विधा तत्र दृश्यन्ते शास्त्र-चक्षुषा ।
एके नातिचिर-व्यक्ता नातिविस्तृत-कीर्तयः ।
ते मोहिनी च हंसश् च शुक्लाद्याश् च युगानुगाः

1.4.47

अपरे शास्त्र-कर्तारः प्रायः स्युर् मुनि-चेष्टिताः ।
धन्वन्तर्य्-ऋषभौ व्यासो दत्तश् च कपिलश् च ते

1.4.48

अथ स्युर् वैभवावस्थास् ते च कूर्मो ऋषाधिपः ।
नारायणो नर-सखः श्री-वराह्-हयाननौ

1.4.49

पृश्नि-गर्भः प्रलम्बघ्नो यज्ञाद्याश् च चतुर्दश ।
इत्य् अमी वैभवावस्था एकविंशतिर् ईरिताः

1.4.50

ते क्रोड-हयग्रीवौ नव-व्यूहान्तरोदितौ ।
मन्वन्तरावतारेषु चत्वारः प्रवरास् तथा

1.4.51

ते तु श्री-हरि-वैकुण्ठौ तथैवाजित-वामनौ ।
षड् अमी वैभवावस्थाः परावस्थोपमा मताः

1.4.52

केषांचिद् एषां स्थानानि लिख्यन्ते शास्त्र-दृष्टितः ।
यत्र तत्र विराजन्ते यानि ब्रह्माण्ड-मध्यतः ।
विष्णुधर्मोत्तरादीनां वाक्यं तत्र प्रमाण्यते

1.4.53

विष्णुधर्मोत्तरे -
तयोपरिष्टाद् अपरस् तावान् एव प्रमाणतः ।
महातलेति विख्यातो रक्त-भौमश् च पञ्चमः ॥
सरोवरं भवेत् तत्र योजनानां दशायुतम् ।
स्वयं च तत्र वसति कूर्म-रूप-धरो हरिः

1.4.54

तयोपरिष्टाद् अपरस् तावान् एव प्रमाणतः ।
तत्रास्ते सरसी दिव्या योजनानां शता-त्रयम् ।
तस्यां स वसते देवो मत्स्य-रूप-धरो हरिः

1.4.55

नारायणो नरसखो वसते वदरीपदे

1.4.56

नृ-वराहस्य वसतिर् महर्-लोके प्रकीर्तिता ।
योजनानां प्रमाणेन अयुतानां शत-त्रयम्

1.4.57

अयुतानि च पञ्चाशत् शेष-स्थानं मनोहरम्

1.4.58

स एव लोको वाराहः कथितस् तु स्वयं प्रभः ।
लोकोऽयम् अण्ड-संलग्नः सर्वाधस्तान् मनोहरः ।
वराह-रूपो भगवान् श्वेतरूपधरोऽवसत्

1.4.59

तयोपरिष्टाद् अपरस् तावान् एव प्रमाणतः ।
पीत-भौमश् चतुर्थस् तु गभस्ति-तल-संज्ञकः ।
तत्रास्ते भगवान् विष्णुर् देवो हयशिरोधरः ।
शशाङ्क-शत-सङ्काशः शातकुम्भ-विभूषणः

1.4.60

पृश्निगर्भस्य वसतिर् ब्रह्मणो भुवनोपरि

1.4.61

वासस् तत्र प्रलम्बारेर् यत्रैवाघरिपोर् भवेत्

1.4.62

एतस्यैवांश-भूतोऽयं पाताले वसति स्वयम् ।
नित्यं ताल-ध्वजो वाग्मी वनमाला-विभूषितः ॥
धारयन् शिरसा नित्यं रत्न-चित्रां फणावलीम् ।
लाङ्गली मुषली कड्गी नीलाम्बर-विभूषितः

1.4.63

ब्रह्म-लोकोपरिष्टाच् च हरेर् लोको विराजते

1.4.64

स्वर्-लोके वसतिर् विष्णोर् वैकुण्ठस्य महात्मनः ।
तथा वैकुण्ठ-लोके च स्वयम् आविष्कृतो हि यः

1.4.65

अजितस्य निवासस् तु ध्रुव-लोके समर्थितः ।
भुवर्-लोके तु वसतिर् वामनस्य महात्मनः

1.4.66

त्रिविक्रमस्य वसतिस् तपो-लोके प्रकीर्तिता ।
तथास्य ब्रह्म-लोक-स्थो दिव्यो नारायणाश्रयः ।
ब्रह्म-लोकोपरिष्टाच् च निवासोऽनेन निर्मितः

1.4.67

हरि-वंशे सुरेन्द्रेण कह्तितो यः सुरर्षये

1.4.68

तथा हि हरिवंशे (2.70.37) -
इदं भुङ्क्त्वा महीयं तु भगवन् विष्णुना कृतम् ।
उपर्य् उपरि लोकानां अधिकं भुवनं मुने

1.4.69

इति ॥
सर्वेषाम् अवताराणां पर-व्योम्नि चकासति ।
निवासाः परमाश्चर्या इति शास्त्रे निरूप्यते

1.4.70

तथा हि पाद्मे -
वैकुण्ठ-भुवने नित्ये निवसन्ति महोज्ज्वलाः ।
अवताराः सदा तत्र मत्स्य-कूर्मादयोऽखिलाः

मूल पाठ: Laghubhāgavatāmṛta · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc