लघुभागवतामृत · अध्याय 1.3
इति पुरुषावतार-गुणावतार-निरूपणम् ॥2॥
तृतीयः परिच्छेदः
लीलावतार-निरूपणम्
अथ लीलावताराश् च विलिख्यन्ते यथा मति ।
श्रीमद्-भागवतस्यानुसारेण प्रायशस् त्व् अमी
तत्र श्री-चतुःसनः श्री-प्रथमे (1.3.6) -
स एव प्रथमं देवः कौमारं सर्गम् आश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम्
इति ।
चतुर्भिर् अवतारोऽयम् एक एव सतां मतः ।
सम-शब्दात् चतुर्ष्व् एव चतुःसन इति स्मृतः
शुद्ध-ज्ञानस्य भक्तेश् च प्रचारार्थम् अवातरत् ।
पञ्चषाब्दिक-बालाभो गौरः कमल-योनितः
श्री-नारदः । तत्रैव (1.3.8) -
तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः ।
तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः
प्रवर्तनाय लोकेऽस्मिन् स्वभक्तेर् एव सर्वतः ।
हरिर् देवर्षि-रूपेण चन्द्र-शुभ्रो विधेर् अभूत्
आविर्भूयाद् इद्मे ब्राह्मे कल्प एव चतुःसनः ।
नारदश् चानुवर्तेते कल्पेषु सकलेष्व् अपि
श्री-वराहः । तत्रैव (1.3.7) --
द्वितीयं तु भवायास्य रसातल-गतां महीम् ।
उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः
श्री-द्वितीये च (2.7.1)
यत्रोद्यतः क्षिति-तलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकल-यज्ञ-मयीम् अनन्तः ।
अन्तर्-महार्णव उपागतम् आदि-दैत्यं
तं दंष्ट्रयाद्रिम् इव वज्र-धरो ददार
इति ।
द्विर् आविरासीत् कल्पेऽस्मिन्न् आद्ये स्वायम्भुवान्तरे ।
घ्राणाद् विधेर् धरोद्धृत्यै चाक्षुषीये तु नीरतः
हिरण्याक्षं धरोद्धारे निहन्तुं दंष्ट्रि-पुङ्गवः ।
चतुष्पात् श्री-वराहोऽसौ नृ-वराहः क्वचिन् मतः
कदाचिज् जलद-श्यामः कदाचिच् चन्द्रपाण्डरः ।
यज्ञ-मूर्तिः स्थविष्ठोऽयं वर्ण-द्वय-युतः स्मृतः
दक्षात् प्राचेतसात् सृष्टिः श्रूयते चाक्षुषेऽन्तरे ।
अतस् तत्रैव जन्मास्य हिरण्याक्षस्य युज्यते
तथा हि श्री-चतुर्थे (4.30.49) --
चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते ।
यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः
इति ।
उत्तानपाद-वंश्यानां तनयस्य प्रचेतसाम् ।
दक्षस्यैव दितिः पुत्री हिरणाक्षो दितेः सुतः
कल्पारम्भे तदा नास्ति सुतोत्पत्तिर् मनोर् अपि ।
क्वासौ प्राचेतसो दक्षः क्व दितिः क्व दितेः
अतः काल-द्वयोद्भूतं श्री-वराहस्य चेष्टितम् ।
एकत्रैवाह मैत्रेयः क्षत्तुः प्रश्नानुरोधतः
मध्ये मन्वन्तरस्यैव मुनेः शापान् मनुं प्रति ।
प्रलयोऽसौ बभूवेति पुराणे क्वचिद् ईर्यते
अयम् आकस्मिको जातश् चाक्षुषस्यान्तरे मनोः ।
प्रलयः पद्मनाभस्य लीलयेति च कुत्रचित्
सर्व-मन्वन्तरस्यान्ते प्रलयो निश्चितं भवेत् ।
विष्णु-धर्मोत्तरे त्व् एतत् मार्कण्डेयेन भाषितम्
तथा हि -
मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ।
महर्लोकम् अथासाद्य तिष्ठन्ति गत-कल्मषाः
मनुश् च सह शक्रेण देवाश् च यदुनन्दन ।
ब्रह्म-लोकं प्रपद्यन्ते पुनर् आवृत्ति-दुर्लभम्
भूतलं सतलं वज्र तोय-रूपी महेश्वरः ।
ऊर्मि-माली महावेगः सर्वम् आवृत्य तिष्ठति
भूर्लोकम् आश्रितं सर्वं तदा नश्यति यादव ।
न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः
नौर् भूत्वा तु तदा देवी मही यदु-कुलोद्वह ।
धारयत्य् अथ बीजानि सर्वाण्य् एवाविशेषतः
भविष्यश् च मनुस् तत्र भविष्या ऋषयस् तथा ।
तिष्ठन्ति राज-शार्दूल सप्त ते प्रथिता भुवि
मत्स्य-रूप-धरो विष्णुः शृङ्गी भूत्वा जगत्-पतिः ।
आकर्षति तु तां नावं स्थानात् स्थानं तु लीलया
हिमाद्रि-शिखरे नावं बद्धा देवो जगत्-पतिः ।
मत्स्यस् त्व् अदृश्यो भवति ते च तिष्ठन्ति तत्रगाः
कृत-तुल्यं ततः कालं यावत् प्रक्षालनं स्मृतम् ।
आपः शमम् अथो यान्ति यथा-पूर्वं नराधिप ।
ऋषयश् च मनुश् चैव सर्वं कुर्वन्ति ते तदा
इति ।
मनोर् अन्ते लयो नास्ति मनवेऽदर्शि मायया ।
विष्णुनेति ब्रुवाणैस् तु स्वाभिर् नैष मन्यते
श्री-मत्स्यः श्री-प्रथमे (1.3.15) -
रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे ।
नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम्
श्री-द्वितीये (2.7.22) च --
मत्स्यो युगान्त-समये मनुनोपलब्धः
क्षोणीमयो निखिल-जीव-निकाय-केतः ।
विस्रंसितान् उरु-भये सलिले मुखान् मे
आदाय तत्र विजहार ह वेद-मार्गान्
पाद्मे च -
एवम् उक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
मत्स्य-रूपं समास्थाय प्रविवेश महोदधिम्
मत्स्योऽपि प्रादुरभवद् द्विः कल्पेऽस्मिन् वराहवत् ।
आदौ स्वायम्भुवीयस्य दैत्यं घ्नन्न् आहरच् छ्रुतीः ।
अन्ते तु चाक्षुषीयस्य कृपां सत्यव्रतेऽकरोत्
अन्त्येन सार्ध-पद्येन प्रोक्तम् आद्यस्य चेष्टितम् ।
पूर्व-सार्धेन चान्त्यस्य मत्स्यो ज्ञेयो वराहवत्
उपलक्षणम् एवैतत् अन्य-मन्वन्तरस्य च ।
विष्णु-धर्मोत्तराज् ज्ञेयाः प्रादुर्भावाश् चतुर्दश
श्री-यज्ञः श्री-प्रथमे (1.3.22) -
नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया ।
समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम्
इति ।
त्रयाणाम् एव लोकानां महार्ति-हरणाद् असौ ।
मातामहेन मनुना हरिर् इत्य् अपि शब्दितः
श्री-नर-नारायणौ तत्रैव (1.3.9) --
तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी ।
भूत्वात्मोपशमोपेतम् अकरोद् दुश्चरं तपः
इति ।
शास्त्रेऽन्यौ हरि-कृष्णाख्याव् अनयोः सोदरौ स्मृतौ ।
एभिर् एकोऽवतारः स्यात् चतुर्भिः सनकादिवत्
श्री-कपिलः तत्रैव (1.3.10) --
पञ्चमः कपिलो नाम सिद्धेशः काल-विप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्व-ग्राम-विनिर्णयम्
इति ।
देवहूत्यां कर्दमतः प्रादुर्भावम् असौ गतः ।
प्रोक्तः कपिलवर्णत्वात् कपिलाख्यो विरिञ्चिना
पाद्मे -
कपिलो वासुदेवांशस् तत्त्वं साङ्ख्यं जगाद ह ।
ब्रह्मादिभ्यश् च देवेभ्यो भृग्वादिभ्यस् तथैव च ।
तथैवासुरयेसर्ववेदार्थैर् उपबृंहितम्
सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह ।
साङ्ख्यम् आसुरयेऽनय्समि कुतर्क-परिबृंहितम्
श्री-दत्तः । श्री-द्वितीये (2.7.4) --
अत्रेर् अपत्यम् अभिकाङ्क्षत आह तुष्टो
दत्तो मयाहम् इति यद् भगवान् स दत्तः ।
यत्-पाद-पङ्कज-पराग-पवित्र-देहा
योगर्द्धिम् आपुर् उभयीं यदु-हैहयाद्याः
श्री-प्रथमे च (1.3.11) --
षष्ठम् अत्रेर् अपत्यत्वं वृतः प्राप्तो ऽनसूयया ।
आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान्
श्री-ब्रह्माण्डे तु कथितम् अत्रि-पत्न्यानुसूयया ।
प्रार्थितो भगवान् अत्रेर् अपत्यत्वम् उपेयिवान्
तथा हि -
वरं दत्त्वानसूयायै विष्णुः सर्व-जगन्मयः ।
अत्रेः पुत्रोऽभवत् तस्यां स्वेच्छा-मानुष-विग्रहः ।
दत्तात्रेय इति ख्यातो यति-वेश-विभूषितः
श्री-हयशीर्षा । श्री-द्वितीये (2.7.11) --
सत्रे ममास भगवान् हय-शीरषाथो
साक्षात् स यज्ञ-पुरुषस् तपनीय-वर्णः ।
छन्दोमयो मखमयो ऽखिल-देवतात्मा
वाचो बभूवुर् उशतीः श्वसतो ऽस्य नस्तः
इति ।
प्रादुर्भूयैव यज्ञाग्नेर् दानवौ मधु-कैटभौ ।
हत्वा प्रयानयद् वेदान् पुनर् वागीश्वरी-पतिः
श्री-हंसः । श्री-द्वितीये (2.7.19) --
तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधु परितुष्ट उवाच योगम् ।
ज्ञानं च भागवतम् आत्म-सतत्त्व-दीपं
यद् वासुदेव-शरणा विदुर् अञ्जसैव
इति ।
शक्तोऽखिल-विवेकेऽहं क्षीर-नीर-विभागवत् ।
इति व्यञ्जन्न् अयं राज-हंसो व्यक्तिं जलाद् गतः
श्री-ध्रुव-प्रियः । तत्रैव (2.7.8) --
विद्धः सपत्न्य्-उदित-पत्रिभिर् अन्ति राज्ञो
बालो ऽपि सन्न् उपगतस् तपसे वनानि ।
तस्मा अदाद् ध्रुव-गतिं गृणते प्रसन्नो
दिव्याः स्तुवन्ति मुनयो यद् उपर्य्-अधस्तात्
इति ।
स्वायम्भुवेऽवतारोक्तेर् नाम्नश् चाकथनाद् इह ।
यज्ञादीनां च तत्रोक्त्या पारिशेष्य-प्रमाणतः ॥
प्रसिद्ध्या पृश्नि-गर्भेति तद्-आख्यास्य निगद्यते ।
हन्तायम् अद्रिर् इत्य् आदौ पद्ये गोवर्धनाद्रिवत्
तथा श्री-दशमे (10.3.32) --
त्वम् एव पूर्व-सर्गे ऽभूः पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिर् अकल्मषः ।
अहं सुतो वाम् अभवं पृश्निगर्भ इति स्मृतः
इति ।
अस्यात्र चरितानुक्त्या नामानुक्त्या च तत्र वै ।
परस्परम् अपेक्षित्वाद् युक्ता चैकत्र सङ्गतिः
अत्रागमन-मात्रेण यदि स्याद् अवतारता ।
अन्यत्रापि प्रसज्येत यथेष्टं तत्-प्रकल्पना
श्री-ऋषभः । श्री-प्रथमे (1.3.13) --
अष्टमे मेरुदेव्यां तु नाभेर् जात उरुक्रमः ।
दर्शयन् वर्त्म धीराणां सर्वाश्रम-नमस्कृतम्
शुक्लः परमहंसानां धर्मं ज्ञापयितुं प्रभुः ।
व्यक्तो गुणैर् वरिष्ठत्वाद् विख्यात ऋषभाख्यया
श्री-पृथुः । तत्रैव (1.3.14) --
ऋषिभिर् याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमाम् ओषधीर् विप्रास् तेनायं स उशत्तमः
इति ।
मथ्यमानान् मुनि-गणैर् असव्याद् वैण-बाहुतः ।
प्रादुर्भूतो महाराजः शुद्ध-स्वर्ण-रुचिः पृथुः
आद्ये व्यक्ताः कुमाराद्याः पृथ्व्-अन्ताश् च त्रयोदश ।
केलोअमत्स्यौ पुनर् व्यक्तिं चाक्षुषीये तु जग्मतुः
अथ श्री-नृसिंहः । तत्रैव (1.3.18) --
चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रम् ऊर्जितम् ।
ददार करजैर् ऊराव् एरकां कट-कृद् यथा
षष्ठेऽन्तरेऽब्धिमथनान् नृहरेः पूर्व-भाविता ।
अतः प्राग् एष कूर्मादेर् व्यक्तिं षष्ठेऽन्तरे गतः
श्री-कूर्मः । तत्रैव (1.3.16) --
सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठ-रूपेण पृष्ठ एकादशे विभुः
इति ।
पाद्मे प्रोक्तं दधे क्षौणीमयम् एवार्थितः सुरैः ।
शास्त्रान्तरे तु भूधारी कल्पादौ प्रकटोऽभवत्
श्री-धन्वन्तरि-मोहिन्यौ । तत्रैव (1.3.17) --
धान्वन्तरं द्वादशमं त्रयोदशमम् एव च ।
अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया
इति ।
तत्र श्री-धन्वन्तरिः -
षष्ठे च सप्तमे चायं द्विराविर्भावम् आगतः
षष्ठेऽन्तरेऽब्धि-मथनाद् धृतामृत-कमण्डलुः ।
उद्गतो द्विभुजः श्यामः आयुर्वेद-प्रवर्तकः ।
सप्तमे च तथा-रूपः काशीराज-सुतोऽभवत्
श्री-मोहिनी --
दैत्यानां मोहनायासौ प्रमोदाय च धुर्जण्ः ।
अजितो मोहिनी-मूर्त्या द्विराविर्भावम् आगतः
इति षष्ठेऽत्र चत्वारो नृसिंहायाः प्रकीर्तिताः
श्री-वामनः । तत्रैव (1.3.19) --
पञ्चदशं वामनकं कृत्वागाद् अध्वरं बलेः ।
पद-त्रयं याचमानः प्रत्यादित्सुस् त्रि-पिष्टपम्
इति ।
वामनस् त्रिर् अभिव्यक्तं कल्पेऽस्मिन् प्रतिपेदिवान् ।
तत्रादौ दानवेन्द्रस्य वास्कलेर् अध्वरं ययौ ॥
ततो वैवस्वतीयेऽस्मिन् धुन्धोर् मखम् असौ गतः ।
अदितौ कश्यपाज् जातः सप्तमेऽस्य चतुर्युगे ।
प्रतिग्रह-कृते जातास् त्रय एव त्रिविक्रमाः
श्री-भार्गवः । तत्रैव (1.3.20) --
अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहो नृपान् ।
त्रिः-सप्त-कृत्वः कुपितो निः-क्षत्राम् अकरोन् महीम्
इति ।
रेणुका-जमदग्निभ्यां गौरो व्यक्तिम् असौ गतः ।
प्राहुः सप्तदशे केचिद् द्वाविंशेऽन्ये चतुर्युगे
श्री-राघवेन्द्रः । तत्रैव (1.3.22) --
नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया ।
समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम्
इति ।
कौशल्यायां दशरथान् नवदूर्वादल-द्युतिः ।
त्रेतायाम् आविरभवत् चतुर्विंशे चतुर्युगे ।
भरतेन सुमित्राया नन्दनाभ्यां च संयुतः
अस्य शास्त्रे त्रयो व्यूहा लक्ष्मणआद्या अमी स्मृताः ।
भरतोऽत्र घनश्यामः सौमित्री कनक-प्रभौ
पाद्मे भरत-शत्रुघ्नौ शङ्ख-चक्रतयोदितौ ।
श्री-लक्ष्मणस् तु तत्रैव शेष इत्य् अभिशब्दितः
श्री-व्यासः । तत्रैव (1.3.21) -
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेद-तरोः शाखा दृष्ट्वा पुंसो ऽल्प-मेधसः
इति ।
द्वैपायनोऽस्मि व्यासानाम् इति शौरिर् यद् ऊचिवान् ।
अतो विष्णु-पुराणादौ विशेषेणैव वर्णितः
यथा (विप् 3.4.5; म्भ् 12.346.11) -
कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं स्वयम् ।
को ह्य् अन्यः पुण्डरीकाक्षान् महाभारत-कृद् भवेत् ॥
इति
श्रूयतेऽपान्तरतमा द्वैपायन्यम् अगाद् इति ।
किं सायुज्यं गतः सोऽत्र विष्ण्व्-अंशः सोऽपि वा भवेत् ।
तस्माद् आवेश एवायम् इति केचिद् वदन्ति च
अथ श्री-राम-कृष्णौ । श्री-प्रथमे (1.3.23) --
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
राम-कृष्णाव् इति भुवो भगवान् अहरद् भरम्
इति ।
श्री-रामः -
एष मातृद्वये व्यक्तो जनकाद् वसुदेवतः ।
यो नव्य-घन-साराभो घन-श्यामाम्बरः सदा
सङ्कर्षणो द्वितीयो यो व्यूहः रामः स एव हि ।
पृथ्वी-धरेण शेषेण सम्भूय व्यक्तिम् ईयिवान्
शेषो द्विधा महीधारी श्य्यारूपश् च शार्ङ्गिणः ।
तत्र सङ्कर्षणावेशाद् भूभृत् सङ्कर्षणो मतः ।
शय्या-रूपस् तथा तस्य सख्य-दास्याभिमानवान्
श्री-कृष्णः -
एष मातरि देवक्यां पितुर् आनक-दुन्दुभेः ।
प्रादुर्भूतो घनश्यामो द्विभुजोऽपि चतुर्भुजः
श्री-बुद्धः । तत्रैव (1.3.24) --
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् ।
बुद्धो नाम्नाञ्जन-सुतः कीकटेषु भविष्यति
इति ।
असौ व्यक्तः कलेर् अब्द-सहस्र-द्वितये गते ।
मूर्तिः पाटल-वर्णास्य द्विभुजा चिकुरोज्झिता
यदा सूतः कथाम् आह तदा बुद्धस्य भाविता ।
अधुना वृत्त एवायं धर्मारण्ये यद् उद्गतः
श्री-कल्किः । तत्रैव (1.3.25) --
अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।
जनिता विष्णु-यशसो नाम्ना कल्किर् जगत्-पतिः
इति ।
पूर्वं मनुर् दशरथो वसुदेवोऽप्य् असाव् अभूत् ।
भावी विष्णु-यशास् चायम् इति पाद्मे प्रकीर्तितम्
ऐश्वर्यं कल्किनस् तस्य ब्रह्माण्डे सुष्ठु वर्णितम् ।
कैश्चित् कलौ कलौ बुद्धः स्यात् कल्की चेत्य् उदीर्यते
अष्टौ वैवस्वतीयेऽमी कथिता वामनादयः
कल्पावतारा इत्य् एते कथिताः पञ्च-विंशतिः ।
प्रतिकल्पं यतः प्रायः सकृत् प्रादुर्भ्वत्य् अमी
मूल पाठ: Laghubhāgavatāmṛta · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0