लघुभागवतामृत · अध्याय 1.2
इति स्वयंरूप-विलास-स्वांशावेश-प्रकाश-लक्षण-भगवत्-तत्त्व-निरूपणम् ॥1॥
द्वितीय-परिच्छेदः
पुरुषावतार-गुणावतार-निरूपणम् ।
अथावताराः कथ्यन्ते कृष्णो येषु च पुष्कलाः
तल्-लक्षणम् -
पूर्वोक्ता विश्व-कार्यार्थं अपूर्वा इव चेत् स्वयम् ।
द्वारान्तरेण वाविःस्युर् अवतारास् तदा स्मृताः
तच् च द्वारं तद्-एकात्म-रूपस् तद्-भक्त एव च ।
शेष-शाय्य्-आदिको यद्वद् वसुदेवादिकोऽपि च
पुरुषाख्या गुणात्मनो लीलात्मानश् च ते त्रिधा
प्रायः स्वांशास् तथावेशा अवतारा भवन्त्य् अमी ।
अत्र यः स्यात् स्वयंरूपः सोऽग्रे व्यक्तीभविष्यति
तत्र पुरुष-लक्षणं, यथा श्री-विष्णु-पुराणे (6.8.61)
तस्यैव योऽनुगुण-भुग् बहुधैक एव
शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः ।
ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥
इति ।
तस्यैवानुपूर्वोक्तात् परमेश्वरात् समनन्तरम् इति स्वामी
तत्र कारिका -
परमेशांश-रूपो यः प्रधान-गुण-भाग् इव ।
तद्-ईक्षादि-कृतिर् नानावतारः पुरुषः स्मृतः
अस्यावतारत्वं च श्री-भागवते द्वितीय-स्कन्धे -
आद्योऽवतारः पुरुषः परस्य
इति (भ्प् 2.6.40)
तस्य च भेदाः, यथा सात्वत-तन्त्रे -
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥
इति
तत्र प्रथमं, यथैकादशे [भ्प् 11.4.3] -
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः
ब्रह्म-संहितायां [5.10-13] च -
तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥
सहस्र-शीर्षा पुरुष इत्य् आरभ्य
नारायणः स भगवान् आपस् तस्मात् सनातनात् ।
आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः ।
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥
तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च ।
हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥ ईत्य् एतद् अन्तम्
लिङ्गम् अत्र स्वयं-रूपस्याङ्ग-भेद उदीरितः
द्वितीयं, यथा तत्रैव [ब्र्स् 5.14] तद्-अनन्तरं -
प्रत्यण्डम् एवम् एकांशाद् विशति स्वयम्
इति ।
गर्भोदक-शयः पद्मनाभोऽसाव् अनिरुद्धकः ।
इति नारायणोपाख्यान उक्तं मोक्ष-धर्मके ।
सोऽयं हिरण्यगर्भस्य प्रद्युम्नत्वे नियामकः
अथ यत् तु तृतीयं स्याद् रूपं तच् चाप्य् अदृश्यत ।
केचित् स्वदेहान्तर् इति द्वितीय-स्कन्ध-पद्यतः
गुणावतारास् तत्राथ कथ्यन्ते पुरुषाद् इह ।
विष्णुर् ब्रह्मा च रुद्रश् च स्थिति-सर्गादि-कर्मणे
यथा प्रथमे (1.2.23) -
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परम-पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥
इति
अत्र कारिका --
योगो नियामकतया गुणैः सम्बन्ध उच्यते ।
अतः स तैर् न युज्यते तत्र स्वांशः परस्य यः
तत्र ब्रह्मा --
हिरण्यगर्भः सूक्ष्मोऽत्र स्थूलो वैराज-संज्ञकः ।
भोगाय सृष्टये चाभूत् पद्मभूर् इति स द्विधा
वैराज एव प्रायः स्यात् सर्गाद्य्-अर्थं चतुर्मुखः ।
कदाचिद् भगवान् विष्णुर् ब्रह्मा सन् सृजति स्वयम्
तथा च पाद्मे -
भवेत् क्वचिन् महाकल्पे ब्रह्मा जीवोऽप्य् उपासनैः ।
क्वचिद् अत्र महाविष्णुर् ब्रह्मत्वं प्रतिपद्यते
इति ॥
विष्णुर् यत्र महा-कल्पे स्रष्टृत्वं च प्रपद्यते ।
तत्र भुङ्क्ते तं प्रविश्य वैराजः सौख्य-सम्पदम् ।
अतो जीवत्वम् ऐश्यं च ब्रह्मणः काल-भेदतः
ईशत्वापेक्षया तस्य शास्त्रे प्रोक्तावतारता ।
समष्टित्वेन भगवत्-सन्निकृष्टतयोच्यते ।
अस्यावतारता कैश्चिद् आवेशत्वेन कैश्चन
तथा ब्रह्म-संहितायां (5.49)
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयम् कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एष जगद्-अण्ड-विधान-कर्ता
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
इति ।
गर्भोदशायिनोऽस्याभूत् जन्म नाभिसरोरुहात्
कदाचित् श्रूयते नीरात् तेजोवातादिकाद् अपि
रुद्र एकादश-व्यूहस् तथाष्टतनुर् अप्य् असौ ।
प्रायः पञ्चाननस् त्र्यक्षो दश-बाहुर् उदीर्यते
क्वचिज् जीव-विशेषत्वं हरस्योक्तं विधेर् इव ।
तत् तु शेषवद् एवास्तां तद्-अंशत्वेन कीर्तनात्
हरः पुरुष-धामत्वान् निर्गुणः प्राय एव सः ।
विकारवान् इह तमो-योगात् सर्वैः प्रतीयते ॥
यथा श्री-दशमे (10.88.3)
शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः
इति ।
यथा ब्रह्म-संहितायां (5.45) -
क्षीरं यथा दधि विकार-विशेष-योगात्
सञ्जायते न हि ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
इति
विधेर् ललाटाज् जन्मास्य कदाचित् कमलापतेः ।
कालाग्नि-रुद्रः कल्पान्ते भवेत् सङ्कर्षणाद् अपि
सदा-शिवाख्या तन्-मूर्तिस् तमोगन्ध-विवर्जिता ।
सर्वकारण-भूतासाव् अङ्ग-भूता स्वयं प्रभोः ।
वायव्यादिषु सैवेयं शिव-लोके प्रदर्शिता
तथा च ब्रह्म-संहितायाम् आदि-शिव-कथने (5.8) -
नियतिः सा रमा देवि तत्-प्रिया तद्-वशं तदा ।
तल्-लिङ्गं भगवान् शम्भुर् ज्योति-रूपः सनातनः ।
या योनिः सापरा शक्तिः इत्य् आदि
श्री-विष्णुः, यथा श्री-तृतीये (3.8.16)
तल् लोक-पद्मं स उ एव विष्णुः
प्रावीविशत् सर्व-गुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सो ऽभूत् ॥
इति
यो विष्णुः पठ्यते सोऽसौ क्षीराम्बुधिशयो मतः ।
गर्भोदशायिनस् तस्य विलासत्वान् मुन्श्वरैः ।
नारायणो विराड् अन्तर्यामी चायं निगद्यते
विष्णु-धर्मोत्तराद्य्-उक्ता याः पूर्योऽजाण्ड-मध्यतः ।
सन्ति विष्णु-प्रकाशानां ताः कथ्यन्ते समासतः
यथा -
रुद्रोपरिष्टाद् अपरः पञ्चायुत-प्रमाणतः ।
अगम्यः सर्व-लोकानां विष्णु-लोकः प्रकीर्तितः
तस्योपरिष्टाद् ब्रह्माण्डः काञ्चनोद्दीप्ति-संयुतः ।
मेरोस् तु पूर्व-दिग्-भागे मध्ये तु लवणोदधेः ।
विष्णुलोको महान् प्रोक्तः सलिलान्तर-संस्थितः
तत्र स्वपिति घर्माम्भे देवदेवो जनार्दनः ।
लक्ष्मी-सहायः सततं शेष-पर्यङ्कम् आस्थितः
मेरोश् च पूर्व-दिग्-भागे मध्ये क्षीरार्णवस्य च ।
क्षीराम्बु-मध्यगा शुभ्रा देवस्यान्या तथा पुरी
लक्ष्मी-सहायस् तत्रास्ते शेषासन-गतः प्रभुः ।
तत्रापि चतुरो मासान् सुप्तस् तिष्ठति वार्षिकान्
तस्मिन्न् अवाचि दिग्-भागे मध्ये क्षीरार्णवस्य तु ।
योजनानां सहस्राणि मण्डलः पञ्च-विंशतिः ।
श्वेतद्वीपतया ख्यातो द्वीपः परम-शोभनः
नराः सूर्य-प्रभास् तत्र शीतांशु-सम-दर्शनाः ।
तेजसा दुर्निरीक्ष्याश् च देवानाम् अपि यादव
ब्रह्माण्डे च -
श्वेतो नाम महान् अस्ति द्वीपः क्षीराब्धि-वेष्टितः ।
लक्ष-योजन-विस्तारः सुरम्यः सर्व-काञ्चनः
कुन्देन्दु-कुमुद-प्रख्यैर् लोल-कल्लोल-राशिभिः ।
धौताम् अल-शिलोपेतः समन्तात् क्षीर-वारिधेः
इति ।
किं च विष्णु-पुराणादौ मोक्ष-धर्मे च कीर्तितम् ।
क्षीराब्धेर् उत्तरे तीरे श्वेत-द्वीपो भवेद् इति
शुद्धोदाद् उत्तरे श्वेतद्वीपं स्यात् पाद्म-सम्मतम्
विष्णुः सत्त्वं तनोतीति शास्त्रे सत्त्व-तनुं स्मृतः ।
अवतार-गणश् चास्य भवेत् सत्त्व-तनुस् तथा ।
बहिरङ्गम् अधिष्ठानम् इति वा तस्य तत् तनुः
अतो निर्गुणता सम्यक् सर्व-शास्त्रे प्रसिध्यति
तथा हि श्री-दशमे (10.88.4) --
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥
इति
तेन सत्त्व-तनोर् अस्मात् श्रेयांसि स्युर् इतीरितम्
इत्य् अतो विहिता शास्त्रे तद्-भक्तेर् एव नित्यता
तथा हि पाद्मे -
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः
अतएव तत्रैव (पद्मप् 4.93.26) --
व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास्
तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते
श्री-प्रथम-स्कन्धे (1.2.26)
मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ ।
नारायण-कलाः शान्ता भजन्ति ह्य् अनसूयवः ॥
इति
अत्र स्वांशा हरेर् एव कला-शब्देन कीर्तिताः
अतो विधि-हरादीनां निखिलानां सुपर्वणाम् ।
श्री-विष्णोः स्वांश-वर्गेभ्यो न्यूनताभिप्रकाशिता
यथा तत्रैव (1.18.21) --
अथापि यत्-पाद-नखावसृष्टं
जगद् विरिञ्चोपहृतार्हणाम्भः
सेशं पुनात्य् अन्यतमो मुकुन्दात्
को नाम लोके भगवत्-पदार्थः
इति ।
महा-वाराहे च -
मत्स्य-कूर्म-वरहाद्याः समा विष्णोर् अभेदतः ।
ब्रह्माद्याम् असमाः प्रोक्ताः प्रकृतिस् तु समासमा
इति ॥
अत्र प्रकृति-शब्देन चिच्-छक्तिर् अभिधीयते ।
अभिन्न-भिन्न-रूपत्वाद् अस्यैवोक्ता समासमा
मूल पाठ: Laghubhāgavatāmṛta · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0