भाषा

ENहिગુ
ग्रंथ पाठ

लघुभागवतामृत · अध्याय 1.1

1.1.1

लघुभागवतामृत
पूर्व-खण्डम् श्री-कृष्णामृतम् प्रथम-परिच्छेदः
स्वयंरूप-विलास-स्वांशावेश-प्रकाश-लक्षण-भगवत्-तत्त्व-निरूपणम् ।
ओं नमः श्री-कृष्णाय --
नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।
यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः

1.1.2

(भ्प् 10.87.46)
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः

1.1.3

(भ्प् 11.5.32)
मुखारविन्द-निस्यन्द-मरन्द-भर-तुन्दिला ।
ममानन्दं मुकुन्दस्य सन्दुग्धां वेणु-काकली

1.1.4

श्री-चैतन्य-मुखोद्गीर्णा हरे-कृष्णेति वर्णकाः ।
मज्जयन्तो जगत् प्रेम्णि विजयन्तां तद्-आह्वयाः

1.1.5

श्रीमत्-प्रभुपादाम्भोजैः श्रीमद्-भागवतामृतम् ।
यद्-व्यतानि तद् एवेदं सङ्क्षेपेण निषेव्यते

1.1.6

इदं श्री-कृष्ण-तद्-भक्त-सम्बन्धाद् अमृतं द्विधा ।
आदौ कृष्णामृतं तत्र सुहृद्भ्यः परिवेष्यते

1.1.7

निर्बन्धं युक्ति-विस्तारे मयात्र परिमुञ्चता ।
प्रधानत्वात् पर्माणेषु शब्द एव प्रमाण्यते

1.1.8

यतस् तैः शास्त्र-योनित्वात् इति न्याय-प्रदर्शनात् ।
शब्दस्यैव प्रमाणत्वं स्वीकृतं परमर्षिभिः

1.1.9

किं च तर्काप्रतिष्ठानात् इति न्याय-विधानतः ।
अमीभिर् एव सुव्यक्तं तर्कस्यानादरः कृतः

1.1.10

अथोपास्येषु मुख्यत्वं वक्तुम् उत्कर्ष-भूमतः ।
कृष्णस्य तत्-स्वरूपाणि निरूप्यन्ते क्रमाद् इह

1.1.11

स्वयं रूपस् तद्-एकात्म-रूप आवेश-नामकः ।
इत्य् असौ त्रिविधं भाति प्रपञ्चातीत-धामसु

1.1.12

तत्र स्वयंरूपः --
अनन्यापेक्षि यद् रूपं स्वयं-रूपः स उच्यते

1.1.13

ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम्

1.1.14

इति (ब्र्स् 5.1)
अत्र तद्-एकात्म-रूपः -
यद्-रूपं तद्-अभेदेन स्वरूपेण विराजते ।
आकृत्यादिभिर् अन्यादृक् स तद्-एकात्म-रूपकः ।
स विलासः स्वांश इति धत्ते भेद-द्वयं पुनः

1.1.15

तत्र विलासः -
स्वरूपम् अन्याकारं यत् तस्य भाति विलासतः ।
प्रायेणात्म-समं शक्त्या स विलासो निगद्यते

1.1.16

परम-व्योम-नाथस् तु गोविन्दस्य यथा स्मृतः ।
परम-व्योम-नाथस्य वासुदेवश् च यादृशः

1.1.17

स्वांशः -
तादृशो न्यून-शक्तिः यो व्यनक्ति स्वांश ईरितः ।
सङ्कर्षणादिर् मत्स्यादिर् यथा तत्-तत्-स्वधामसु

1.1.18

तत्र आवेशः -
ज्ञान-शक्त्य्-आदि-कलया यत्राविष्टो जनार्दनः ।
त आवेशा निगद्यन्ते जीवा एव महत्तमाः

1.1.19

वैकुण्ठेऽपि यथा शेषो नारदः सनकादयः ।
अक्रूर-दृष्टान्ते चामी दशमे परिकीर्तिताः

1.1.20

इति भेद-त्रयम् ।
प्रकाशस् तु न भेदेषु गण्यते स हि नो पृथक्

1.1.21

तथा हि -
अनेकत्र प्रकटता रूपस्यैकस्य यैकदा ।
सर्वथा तत्-स्वरूपैव स प्रकाश इतीर्यते

1.1.22

द्वारवत्यां यथा कृष्णः प्रत्यक्षं प्रतिमन्दिरम् ।
चित्र बतैतद् इत्य् आदि-प्रमाणेन स सेत्स्यति

1.1.23

क्वचिच् चतुर्भुजत्वेऽपि न त्यजेत् कृष्ण-रूपताम् ।
अतः प्रकाश एव स्यात् तस्यासौ द्विभुजस्य च

1.1.24

प्रपञ्चातीत-धामत्वम् एषां शास्त्रे पृथग्-विधे ।
पाद्मीयोत्तर-खण्डादौ व्यक्तम् एव विराजते

मूल पाठ: Laghubhāgavatāmṛta · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc