भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 781-800

781

यस्य न जातिर्नात्मा नार्थज्ञानं न मानसे प्रशमः ।
भवसि भवसार न त्वं तेनाद्वयवादिनासदृशः

782

तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणख्यातिः ।
परिभाषा तत्रापि व्याकरणान्नातिरिच्यसे तेन

783

निर्व्याजस्तवनो ऽपि त्यक्ताक्षेपो ऽपि निरुपमानो ऽपि ।
सद्रूपकजातिगुणैर्नाथ त्वं गामलङ्कुरुषे

784

अन्यैव वर्णनैषा भवत्सु लोकोत्तरा स्थिता कापि ।
वामो यथैव शत्रुषु मित्रेषु तथैव वामो ऽसि

785

पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि ।
प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषलस्त्वम्

786

दैन्यमिदं यच्छ्लाघा क्रियते तव रक्षसापि न समस्य ।
न स हठमकरोद्योषिति भवांस्तु भुङ्क्ते प्रसह्य रिपुलक्ष्मीम्

787

रामणिकाचाटुपदस्तवनं यल्लाभहेतुरस्माकम् ।
तत्पतति ते स्वरूपे यामि नमः सन्तु सौख्यानि

788

श्रुत्वानन्तरमवदद्बन्दिनमभिनन्द्य साधुवादेन ।
आस्स्व किमाकुलता ते यास्यसि तुष्टो मया प्रहितः

789

पुनरपि पठ तद्युगलं गीतिकयोर्यत्त्वया पुरा पठितम् ।
कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकावासे

790

त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे ।
अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन

791

एका खण्डनकुपिता विरसान्या प्रणयभङ्गवैलक्ष्यात् ।
का चिन्निकटतरासनमप्राप्य बिभर्ति हृदयनिर्वेदम्

792

अन्या कलहान्तरिता नवपरिणयलज्जयापरा विहता ।
रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः

793

अभ्युपगमावबोधकमस्तकचलनं विधाय विकृतभ्रूः ।
नृत्ताचार्यमवादीदेतस्मिन् किं सुसंगीतम्

794

स उवाच ततो वणिजो नेतारो यत्र यत्र पात्राणि ।
शाठ्यायतनं दास्यस्तत्र कुतः सौष्ठवं नाट्ये

795

का चिद्बलिनाक्रान्ता का चिन्न जहाति कामिनं रुचिरम् ।
अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम्

796

नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् ।
शूलापालः कथयति लब्धोत्कोचो रजस्वलामपराम्

797

रङ्गगतापि क्षुद्रा शृणोति यदि परिचितं गृहायातम् ।
उद्दिश्य वारिकार्यं व्रजति ततः प्रकृतमुत्सृज्य

798

आ तारुण्योद्भेदात्कान्ते दृष्टिर्ययाभ्यस्ता ।
सामाजिकमध्यस्था सा कथमन्यासु याति परभागम्

799

चेतोवशिता सत्त्वं सत्त्वे सति चारुता प्रयोगस्य ।
न भवति सा वेश्यानां मद्यामिषपुरुषनिहितहृदयानाम्

800

वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदशलोकम् ।
आश्रितवन्तो ऽगत्या तीर्थस्थानोपरोधेन

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc