कुट्टनीमत · श्लोक 761-780
अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरः ।
अभितुष्टाव तमित्थं प्रसन्नगम्बीरया वाचा
जय देव परबलान्तक गुरुचरणाराधनैककृतचित्त ।
परवनिताजघनासन दारिद्र्यतमःप्रचण्डकरजाल
रणधीरवंशभूषण गुरुवसुधादेवपूजनप्रह्व ।
शरणागताभयप्रद हितबान्धवबन्धुजीवमध्याह्न
ईदृक् प्रतापदहनो भावत्को व्याप्तगगनदिक्चक्रः ।
दृष्टो जलायमानो रिपुवनितातिलकशोभासु
एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।
अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः
श्रीफलभुक्पत्रवृतो विग्रहरसिको विमुक्तसत्त्ररतिः ।
राज्यस्थितिं न मुञ्चति हृतलक्ष्मीको ऽपि तव विपक्षगणः
ददतो वाञ्छितमर्थं सदानुरक्तस्य तव गृहं त्यक्त्वा ।
स्त्रीचापलेन कीर्तिर्नग्नासक्ता गता ककुभः
भवतः भवतो धैर्यं तेन हि भिन्नो ऽन्धकः प्रणतः ।
मुक्तास्त्वया तु बहवो रिपवो ऽपि प्रेक्षकाः समरे
अटता जगतीमखिलामिदमाश्चर्यं मया दृष्टम् ।
धनदो ऽपि नयननन्दन परिहरसि यदुग्रसम्पर्कम्
इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।
वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोशस्य
अपरं विस्मयजननं धवलत्वं नापयाति यद्भवतः ।
ललनालोचनकुवलयदलत्विषा शबलितस्यापि
हृदयेषु कामिनीनामेको ऽनेकेषु वससि येन त्वम् ।
जनक कुसुमास्त्रपाणेः पुरुषोत्तम तेन विश्वरूपो ऽसि
किं वहसि वृथा गर्वं प्रियो ऽहमिति योषितां नराधीश ।
काङ्क्षन्ति स्म मुरारिं षोडशगोपीसहस्राणि
ब्राह्मण्येन ययाचे मखसमये यः बलिं हृषीकेशः ।
न स भवति समो भवता दानैकनिषण्णहृदयेन
भूमिभृतामुपरिस्थित उन्नत्या सकलजीवलोकस्य ।
तृष्णासंतापहरो मेघ इव कदा न दक्षस्त्वम्
बहुमार्गो भङ्गयुतः कुसृतिपरो गोत्रभेदकरणपटुः ।
गङ्गाजलप्रवाहः पुण्यदिशा केवलं तव समानः
दुर्व्यवहारोत्पत्तिर्मौर्ख्यप्रसवो ऽविवेकितावसतिः ।
एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः
सुगतो ऽपि नाजिविमुखो वृषध्वजो ऽपि न विषादितायुक्तः ।
उद्यतशस्त्रो ऽपि रिपौ कथमसि सन्नासिको जातः
सन्मणिरनेकभोगो गुरुभारसहः स्थिरात्मतास्थानम् ।
नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः
प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः ।
जघनचपला तथार्या स पिङ्गलस्ते कथं तुल्यः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0