भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 801-820

801

इह तु कदा चित्किं चिद्वृत्तिनिरोधाभिशङ्कया निरुत्साहाः ।
रत्नावल्यामेता विदधति करपादविक्षेपम्

802

वत्सेशभूमिकास्या इयमनुकुरुते नरेश्वरवयस्यम् ।
वासवदत्ताचरितप्रयोगमेषा विडम्बयति

803

उद्यमसाहित्यवशाच्छोभातिशयेन मदनुबन्धेन ।
अनया प्रसिद्धिराप्ता सिंहलराजात्मजानुकृतौ

804

विविधस्थानकरचनां परिक्रमं गात्रवलनलालित्यम् ।
काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम्

805

सात्त्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् ।
मिश्रामिश्रे वाद्ये लयाच्युतिं वर्णयन्ति मञ्जर्याः

806

एषाभिधानकीर्तननाशितसशरीरकुसुमशरबोधा ।
सहसोद्भिन्नमनोभवभावदृशा सिन्दुवारविवरेण

807

पश्यन्ती वत्सेश्वरमनुकार्यानुकरणभेदपरिमोषम् ।
साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति

808

वत्सपतिमालिखन्ती कामावस्थां क्रमेण भजमाना ।
वेपथुपुलकस्वेदैरावहति विसंष्ठुलं हस्तम्

809

सदृशे ऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् ।
दर्शयति निरभिकाङ्क्षितमुद्बन्धनगोचरापन्ना

810

तस्मिन्निर्दिशतीत्थं मञ्जरिकां साभिलाषमवलोक्य ।
पस्पर्श राजपुत्रः किमसाविति वेत्रदण्डेन

811

बुद्ध्वाथ तस्य भावं प्रसारयन्युवतिसंकथाकेलिम् ।
न्यक्कुर्वन्वारवधूः सचिवः प्रशशंस बन्धकीगमनम्

812

दाररतिः संततये व्याधिप्रशमाय चेटिकाश्लेषः ।
तत्खलु सुरतं सुरतं कृच्छ्रप्राप्यं यदन्यनारीषु

813

स्वव्यापारैकमतेः परचिन्ता नास्ति मे कदा चिदपि ।
पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्यथितम्

814

यदि वेद्मि तस्य वसतिं सामर्थ्यं यदि भवेत्ततो ऽभ्यधिकम् ।
तद्गत्वा दग्धविधिं लगुडैः संचूर्णयिष्यामि

815

वपुरिदमनुपममीदृग्यदि विहितं तव कृशाङ्गि हतधात्रा ।
अनुरूपरमणविरहात्किमिति कृतं वन्ध्यजन्मफलम्

816

शैशवमस्तु जरा वा व्याधिर्वा क्षेत्रियः प्रणाशो वा ।
स्वाकारं तारुण्यं न तु कुपतिकदर्थनाग्रस्तम्

817

केलिः प्रदहति मज्जां शृङ्गारो ऽस्थीनि चाटवः कटुकाः ।
न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः

818

कुत आगतासि कस्मिन्वेलामियतीं स्थिता किमर्थमिति ।
पृच्छन्नस्वस्थमना जनयति गेही शिरःशूलम्

819

यदि भवति दैवयोगाच्चक्षुर्विषये समुज्ज्वलस्तरुणः ।
तत्रात्मानं क्षपयति जायां च रटन् गृहस्वामी

820

सविवादे परलोके जनापवादे ऽपि जगति बहुचित्रे ।
दैवाधीने प्रलये न विदग्धा हारयन्ति तारुण्यम्

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc