भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 641-660

641

क्षीणद्रव्ये देहिनि दारा अपि नादरेण वर्तन्ते ।
किमुतादानैकरसाः शरीरपणवृत्तयो दास्यः

642

अविदितहेयादेयास्तिर्यञ्चो ऽपि त्यजन्ति पीतरसम् ।
कुसुमं किमु कार्यविदो वेश्या नरमात्तसर्वस्वम्

643

उत्पादयति सदानो रागं रागात्मको यथाभ्यधिकम् ।
निर्दानो ऽपि सदा नो निःसंदेहं तथैव मनुजन्मा

644

यदतीतं तदतीतं भाविनि लाभे ऽपि नातिबहुमानः ।
तत्कालहस्तनिपतितमनियतपुंसां मुदे वित्तम्

645

पीडितमधु मधुजालं तुच्छीभूतं च मन्मथाग्रस्तम् ।
मुञ्चन्ति मदनशेषं क्षुद्राश्च प्रकटरामाश्च

646

एकः क्रीणात्यद्य प्रातो भविता तथापरः क्रेता ।
अन्यवशे क्षणमेकं न विक्रयः शाश्वतो ऽस्ति वेश्यानाम्

647

संदर्शितपरमार्थं भ्रूक्षेपकटाक्षदृष्टहसितादि ।
शृण्वन्तु ये सकर्णास्तत्कृतमन्यत्र संक्रान्तम्

648

यदि नाम निराकरणे न समर्था छिन्नकार्यबन्धे ऽपि ।
का चिन्महानुभावा बोद्धव्यं तदपि चेतनावद्भिः

649

तेनार्थेनोपकृतं तयापि तस्य स्वदेहदानेन ।
तच्चातीतं सम्प्रति निरर्थकः शुष्कशृङ्गारः

650

अवधीरणा रसायनमपमानो भवति यस्य परितुष्ट्यै ।
योग्यो ऽसौ पुरुषखरः खरतरनिर्भर्त्सनोक्तिलकुटानाम्

651

दीपज्वालाललने व्रजतः खलु निर्वृतिं तयोस्त्वियान् भेदः ।
प्रथमा स्नेहेन विना तथापरा स्नेहयोगेन

652

धर्मः कामादभिनवगुणवन्निःस्वस्य मदनरोगवतः ।
अर्थो ऽर्थवतो ऽभिगमात्कामः समरतनरोपभोगेन

653

यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः ।
स पुमान्सच्चरितधनैः पर्यनुयुक्तः किमाचष्टे

654

कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् ।
दारिद्र्यहतं यौवनमबुधानां केवलं विपदे

655

व्यपगतकोषे रागिणि याति लयं पानमात्रलाभहृता ।
क्षुद्रा मधुकरिकाब्जे न तु गणिका चिन्तितस्वार्था

656

यासां कार्यापेक्षा सकटाक्षनिरीक्षणे ऽपि वेश्यानाम् ।
दर्शनमात्रक्षुभितैर्वञ्च्यन्ते ताः कथं पुरुषैः

657

क्लेशाय दुर्गतानां मानस्तुतिगात्रभङ्गविन्यासम् ।
गणिकाभिनयचतुष्टयमाकृष्ट्यै स्वापतेयपुष्टानाम्

658

किं धक्ष्यति भूयो ऽपि ज्वलनस्तं तादृशं कुलाङ्गारम् ।
यो दह्यते ऽविरामं विरक्तदासीतिरस्कारैः

659

गृहमेतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् ।
पूत्कृतमिदमुद्भुजया न मालती कामसत्त्रदानपरा

660

इति चोदितगृहचेटीनिगदितकटुकाक्षरान्यकृतलक्ष्याः ।
आकर्णयतो वाचो दैवोपहतस्य तस्य मर्मभिदः

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc